Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 361
________________ ३४४ [ह्रस्वस्य ] ह्रस्व षष्ठी ङस् । [तः ] त प्रथमा सि । [पित्कृति] प् इदनुबन्धो यस्य सः = पित्, पिच्चासौ कृच्च धुटीति निवृत्तमसंभवात् अकितीति च कितां पित्वधानाच्च । ह्रस्वस्य तः पित्कृति || ४|४|११३ ।। = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ जगत् ] अम (३९२) द्रम (३९३)- हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ' (३९६) गम् । गच्छतीत्येवंशीलम् । 'दिद्युद् ददृद्- जगज्जुहू वाक्-प्राट्-धी-श्री- दू-सू-ज्वायतस्तू-कटप्पू-परिव्राट्-भ्राजादयः क्विप्' (५।२।८३) क्विप्प्र०, द्वित्वं च । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'गमां क्वौ ' ( ४।२।५८ ) मलोपः । अनेन तोऽन्तः । 'अप्रयोगीत्' ( 91१।३७) क्विप्लोपः । [अग्निचित्] अग्नि । 'चिंग्ट् चयने' (१२९०) चि । अग्नि चितवान् । 'अग्नेश्चेः' (५।१।१६४) क्विप्प्र० । अनेन तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । पित्कृत्, तस्मिन् । [सोमसुत् ] 'पुंग्ट् अभिषवे' (१२८६ ) षु । ' षः सोऽष्ट्यै-ष्ठिव - ष्वष्कः' (२।३१९८ ) सु । सोमं सुतवान् । 'सोमात् सुगः' (५।१।१६३) क्विप्प्र० । अनेन तोऽन्तः । ' अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । [ पुण्यकृत् ] पुण्य ' डुकृंग् करणे' (८८८) कृ । पुण्यं कृतवान् । 'कृगः सु- पुण्य-पाप-कर्म-मन्त्र-पदात्' (५।१।१६२ ) क्विप्प्र० । अनेन तोऽन्तः । 'अप्रयोगीत् ' ( १ । १।३७ ) क्विप्लोपः । - [ आगत्य ] अम (३९२ ) - द्रम (३९३ )- हम्म (३९४) मीमृ ( ३९५ ) - 'गम्लुं गतौ' (३९६) गम्, आड्यूर्व० । आगमनं पूर्वम् । प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । ' यमि-रमि- नमि- गमि- हनि-मनि-वनति - तनादेर्धुटि क्ङिति ' (४/२/५५) मलुक् । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन तोऽन्तः । [विजित्य ] 'जिं अभिभवे' (८) जि, विपूर्व० । विजयनं पूर्वम् । 'प्राक्काले' (५१४१४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन तोऽन्तः । Jain Education International [प्रस्तुत्य ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे० ' (न्या० सं० वक्ष० ( १ ) / सूत्र (२९)) स्तु, प्रपूर्व० । प्रस्तवनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन तोऽन्तः । [प्रहृत्य ] 'हंग् हरणे' (८८५) ह, प्रपूर्व० । प्रहरणं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । अनेन तोऽन्तः । [ग्रामणीः ] 'णीं प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी, ग्रामपूर्व० । ग्रामं नयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । ' ग्रामाऽग्रान्नियः' (२।३।७१) न०० । [आलूय] 'लूग्श् छेदने' (१५१९) लू, आड्पूर्व० । आलवनं पूर्वम् । प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408