________________
३४४
[ह्रस्वस्य ] ह्रस्व षष्ठी ङस् ।
[तः ] त प्रथमा सि ।
[पित्कृति] प् इदनुबन्धो यस्य सः =
पित्, पिच्चासौ कृच्च
धुटीति निवृत्तमसंभवात् अकितीति च कितां पित्वधानाच्च ।
ह्रस्वस्य तः पित्कृति || ४|४|११३ ।।
=
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ जगत् ] अम (३९२) द्रम (३९३)- हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ' (३९६) गम् । गच्छतीत्येवंशीलम् । 'दिद्युद् ददृद्- जगज्जुहू वाक्-प्राट्-धी-श्री- दू-सू-ज्वायतस्तू-कटप्पू-परिव्राट्-भ्राजादयः क्विप्' (५।२।८३) क्विप्प्र०, द्वित्वं च । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'गमां क्वौ ' ( ४।२।५८ ) मलोपः । अनेन तोऽन्तः । 'अप्रयोगीत्' ( 91१।३७) क्विप्लोपः ।
[अग्निचित्] अग्नि । 'चिंग्ट् चयने' (१२९०) चि । अग्नि चितवान् । 'अग्नेश्चेः' (५।१।१६४) क्विप्प्र० । अनेन तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
पित्कृत्, तस्मिन् ।
[सोमसुत् ] 'पुंग्ट् अभिषवे' (१२८६ ) षु । ' षः सोऽष्ट्यै-ष्ठिव - ष्वष्कः' (२।३१९८ ) सु । सोमं सुतवान् । 'सोमात् सुगः' (५।१।१६३) क्विप्प्र० । अनेन तोऽन्तः । ' अप्रयोगीत् ' (१।१।३७) क्विप्लोपः ।
[ पुण्यकृत् ] पुण्य ' डुकृंग् करणे' (८८८) कृ । पुण्यं कृतवान् । 'कृगः सु- पुण्य-पाप-कर्म-मन्त्र-पदात्' (५।१।१६२ ) क्विप्प्र० । अनेन तोऽन्तः । 'अप्रयोगीत् ' ( १ । १।३७ ) क्विप्लोपः ।
-
[ आगत्य ] अम (३९२ ) - द्रम (३९३ )- हम्म (३९४) मीमृ ( ३९५ ) - 'गम्लुं गतौ' (३९६) गम्, आड्यूर्व० । आगमनं पूर्वम् । प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । ' यमि-रमि- नमि- गमि- हनि-मनि-वनति - तनादेर्धुटि क्ङिति ' (४/२/५५) मलुक् । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन तोऽन्तः ।
[विजित्य ] 'जिं अभिभवे' (८) जि, विपूर्व० । विजयनं पूर्वम् । 'प्राक्काले' (५१४१४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन तोऽन्तः ।
Jain Education International
[प्रस्तुत्य ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे० ' (न्या० सं० वक्ष० ( १ ) / सूत्र (२९)) स्तु, प्रपूर्व० । प्रस्तवनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन तोऽन्तः ।
[प्रहृत्य ] 'हंग् हरणे' (८८५) ह, प्रपूर्व० । प्रहरणं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । अनेन तोऽन्तः ।
[ग्रामणीः ] 'णीं प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी, ग्रामपूर्व० । ग्रामं नयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । ' ग्रामाऽग्रान्नियः' (२।३।७१) न०० ।
[आलूय] 'लूग्श् छेदने' (१५१९) लू, आड्पूर्व० । आलवनं पूर्वम् । प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ।
For Private & Personal Use Only
www.jainelibrary.org