Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
-
--
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
३४७ ' [विस्तीर्णम्] ‘स्तूग्श् आच्छादने' (१५२१) स्तू, विपूर्व० । विस्तीर्यते स्म । शेषं 'आस्तीर्णम्' वत् । [किरति] 'कृत् विक्षेपे' (१३३४) कृ । वर्त्त तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन इर् । [गिरति] 'गृत् निगरणे' (१३३५) गृ । वर्त० तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन इर् ।
बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम्[चिकीर्षति] 'डुबंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । ‘स्वरहन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । अनेन इर् । 'सन्-यडश्च' (४।१३) द्वि: । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'नाम्यन्तस्था-कवर्गात् पदान्तः०' (२।३।१५) षत्वम् । 'भ्वादेर्नामिनो०' (२०११६३) दीर्घः । 'नामिनोऽनिट्' (४।३।३३) सनः कित्त्वम्, तस्य फलं इर् आदेशः ।
जिहीर्षति] 'हंग् हरणे' (८८५) ह । हर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४११०४) दीर्घः । अनेन इर । 'सन-यङश्च' (४१३) द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'नाम्यन्तस्थाकवर्गात०' (२।३।१५) षत्वम् । 'भ्वादेर्नामिनो०' (२१११६३) दीर्घः । 'नामिनोऽनिट' (४।३।३३) सनः कित्त्वम्, तस्य फलं इर् आदेशः ।
[तरति] तृ । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।।छ।।
ओष्ठ्यादुर ।।४।४।११७।।
[ओष्ठयात ओष्ठे भवः = ओष्ठ्यः । पञ्चमी उसि । [उर्] उर् प्रथमा सि ।
[पूर्तः] 'पृश् पालन-पूरणयोः' (१५३२) पू । पूर्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । अनेन उर् । 'भ्वादे मिनो दीर्धा ओर्व्यञ्जने' (२।१६३) दीर्घः ।
_[पू:, पुरौ, पुरः] 'पृश् पालन-पूरणयोः' (१५३२) पृ । पृणातीति क्विप् । अनेन उर् । ‘अप्रयोगीत्' (१।१।३७) क्विप्लुक् । ‘पदान्ते' (२।१।६४) दीर्घः । सि-औ-जस् । 'दीर्घड्याव्०' (१।४।४५) सिलुक् ।
पोपूर्यते] पृ । भृशं पुनः पुनर्वा पृणाति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यड़ वा' (३।४।९) यप्र० । अनेन उर् । 'सन्-यडश्च' (४१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलुक् । _ +[पोपुरति] पृ । भृशं पुनः पुनर्वा पृणाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । अनेन उर | 'सन-यडश्च' (४।१३) द्विः । [इस्वः' (४।१३९) ह्रस्वः ?] | 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० अन्ति । 'शिदवित्' (४।३।२०) इत्यनेन अन्ति द्वित् । 'अन्तो नो लुक्' (४।२।९४) नलुक् ।
[वुवूर्षति] 'वृगट वरणे' (१२९४) वृ । वरितुं वरीतुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'स्वरहन-गमोः सनि धुटि' (४११०४) दीर्घः । अनेन उर् । 'सन्-यङश्च' (४।१३) द्विः । 'भ्वादेर्नामिनो०' (२।१९६३) दीर्घः । षत्वम् ।
ॐ बृहद्वृत्तौ - विशीर्णम् । P.5 ओष्ठाद्रवति स्म = ओष्ठ्यः । 'दिगादिदेहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । + धातुपारायणे-क्रिवारत्नसमुच्चये "पापुरति” ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408