Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । अनेन नोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[लम्भकः] लभत इति । ‘णक-तृचौ' (५।११४८) णकप्र० → अक । अनेन नोऽन्तः ।
[साधुलम्भी] साधु लभते । 'साधौ' (५1१1१५५) णिन्प्र० → इन् । अनेन नोऽन्तः । प्रथमा सि । 'इन-हन्' (१।४।८७) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२०११९१) नलुक् ।
[लेभे] लभ् । परोक्षा ए । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए । [लभते] लभ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् ।
[लभन्ती स्त्री] लभति इति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'अधातूदृदितः' (२।४।२) डी । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्य-शवः' (२।१११६) “अन्त्" आदेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक । अत्र मतान्तरेण परस्मैपदम, तस्य फलं शतृप० ।
[लब्धा लभ् । श्वस्तनी ता । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) → ब० ॥छ।।
भ०
आडो यि ॥४।४।१०४।। [आङः] आङ् पञ्चमी डसि । [यि] य् सप्तमी ङि ।
[आलम्भ्या गौः] लभ्, आयूर्व० । आलभ्यते । 'शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र० । अनेन नोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[आलम्भ्या वडवा] लभ, आयूर्व० । आलभ्यते । शकि-तकि-चति-यति०' (५।१।२९) यप्र० । अनेन नोऽन्तः । 'आत्' (२।४।१८) आप्प० → आ ।
लभ्यः ] लभू । लभ्यते । ‘शकि-तकि-चति-यति०' (५1१।२९) यप्र० ।
[आलब्धा] लभ्, आयूर्व० । श्वस्तनी ता । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीयचतुर्थे' (११३१४९) भ० → ब० ॥छ।।
उपात् स्तुतौ ।।४।४।१०५।।
[उपात् उप पञ्चमी उसि ।
[स्तुतौ] स्तुति सप्तमी ङि ।
[उपलम्भ्या विद्या भवता] उप-लभ् । उपलभ्यते । 'शकि-तकि-चति-यति-शसि०' (५।१।२९) यप्र० । अनेन नोऽन्तः । 'आत्' (२।४।१८) आप्प० → आ ।
[उपलम्भ्यं शीलम] - उपलभ्यते । 'शकि-तकि-चति-यति०' (५/१४२९) यप्र० । अनेन नोऽन्तः ।।छ।।
P.5 लभ्यते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408