Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
[विन्दते] विद् । वर्त० ते । 'तुदादे: शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । । [लुम्पति] 'लुप्लुंती छेदने' (१३२३) लुप् । वर्त्तः तिन् । 'तुदादे: शः' (३।४१८१) शप० । अनेन नोऽन्तः । [लुम्पते] लुप् । वर्त० ते । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [लिम्पति] 'लिपीत् उपदेहे' (१३२४) लिप् । वर्तः तिव् । 'तुदादे: शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [लिम्पते] लिप् । वर्त० ते । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [कृन्तति] ‘कृतैत् छेदने' (१३२५) कृत् । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [खिन्दति] 'खिदंत् परिघाते' (१३२६) खिद् । वर्त्तः तिव् । 'तुदादे: शः' (३।४।८१) शप० । अनेन नोऽन्तः । [पिंशति] 'पिशत् अवयवे' (१३२७) पिश् । वर्तः तिव् । 'तुदादेः शः' (३।४।८१) शप० । अनेन नोऽन्तः । [तृम्फति] 'तृफ तृप्तौ' (१३७७) तृफ् । वर्त० तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [दृम्फति] 'दृफ उत्क्ले शे' (१३८१) दृफ् । वर्त्त तिव् । 'तुदादे: शः' (३।४।८१) शप० । अनेन नोऽन्तः । [गुम्फति] 'गुफ ग्रन्थने' (१३८३) गुफ् । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [शुम्भति] 'शुभ शोभार्थे' (१३८७) शुभ । वर्त्त० तिव् । 'तुदादे: शः' (३।४।८१) शप्र० । अनेन नोऽन्तः । [उम्भति] 'उभ पूरणे' (१३८५) उभ् । वर्त्तः तिव् । 'तुदादे: शः' (३।४।८१) शप्र० । अनेन नोऽन्तः ।
तृफादयः सनकारा अनकाराश्च तुदादिषु पठ्यन्ते, तत्र तृम्फादीनां शे नस्य लुगिति तृफादीनां म(न)विधानम् । विधानसामर्थ्याच्चास्य लोपो न भवति, यथा तृफति तृम्फतीत्यादि द्वैरूप्यं सिद्धम् ।
[मोक्ता] मुच् । मुशतीति मोक्ता । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[मोक्तुम्] मुच् । मोचनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । शेषं पूर्ववत् ।।छ।।
जभः स्वरे ||४|४|१००।।
[जभः] जभ षष्ठी डस् ।
[स्वरे] स्वर सप्तमी ङि । _[जम्भयति] यभं (३७८) - 'जभ मैथुने' (३७९) जभ् । जभुङ् (७८२) - 'जभैङ् गात्रविनामे' (७८३) जभ् । जम्भन्तं जम्भमानं वा प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अनेन नोऽन्तः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[जम्भकः] जम्भति जम्भत इति वा । ‘णक-तृचौ' (५११४८) णकप्र० → अक ।
[साधुजम्मी] साधु जम्भति जम्भत इति । 'साधौ' (५1१1१५५) णिन्प्र० → इन् । प्रथमा सि । 'इन् हन-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । दीर्घड्याव-व्यञ्जनात् सेः' (१।४।४५) सिलुक । 'नाम्नो नोऽनहनः' (२।१।९१) नलुक ।
[जम्भंजम्भम्] अभीक्ष्णं जम्भनं पूर्वम् । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० → अम् । भृशा ऽऽभीक्ष्ण्या
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408