Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
३२१
[वा] वा प्रथमा सि ।
[जग्मिवान्, जगन्वान्] अम (३९२)- द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लं गतौ' (३९६) गम् । जगाम । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन वा इट् । 'द्विर्धातुः परोक्षा-डे०' (४191१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४/११४०) ग० → ज० । 'गम-हन-जन-खन-घसः०' (४।२।४४) अलुक् । 'मो नो म्वोश्च' (२११४६७) म० → न० ।
[जनिवान्, जघन्चान] 'हनंक हिंसा-गत्योः' (११००) हन् । जघान । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन वा इट् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो नो नः' (२।१।११२) "घ्न''आदेशः । द्वितीये तु 'अङे हि-हनो हो घः पूर्वात्' (४।१।३४) ह० → घ० ।
विविदिवान, विविद्वान] 'विदलूंती लाभे' (१३२२) विद । विवेद । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) द्विः । अनेन वा इट् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
[विविशिवान्, विविश्वान्] 'विशंत् प्रवेशने' (१४१५) विश् । विवेश । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन वा इट । 'द्विर्धातुः परोक्षा-२०' (४1919) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः ।
[ददृशिवान्, ददृश्वान्] 'दृशुं प्रेक्षणे' (४९५) दृश् । ददर्श । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन वा इट् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४१३८) ऋ० → अ० ।
[विविद्वान्] 'विदक् ज्ञाने' (१०९९) विद् । विवेद । 'तत्र वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१४४) अनादिव्यञ्जनलोपः ।
‘विदिच् सत्तायाम्' (१२५८), 'विदिप विचारणे' (१४९७) अनयोरात्मनेपदित्वात् क्वसुर्नास्त्येव ।।छ।।
सिचोऽओः ।।४।४।८४||
[सिचः] सिच् षष्ठी डस् । [अञ्जेः] अलि पञ्चमी डसि ।
[आञ्जीत ‘अझोप व्यक्ति-म्रक्षण-गतिषु' (१४८८) अञ्ज । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । ‘स्वरादेस्तासु' (४।४।३१) वृ० आ ।
[आञ्जिष्टाम्] अञ् । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'स्वरादेस्तासु' (४।४।३१) वृ० आ । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
[आञ्जिषुः] अञ् । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्वरादेस्तासु' (४।४।३१) वृ० आ । 'सिजविदोऽभुवः' (४।२।९२) अन्० → पुस्० → उस्० । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् ।
[अङ्क्ता, अञ्जिता] अञ् । श्वस्तनी ता । 'धूगोदितः' (४।४।३८) वा इट् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते'(१।३।३९) न० → ङ० ।
औदित्त्वात् विकल्पे प्राप्ते नित्यार्थं वचनम् ।।छ।।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408