Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
षड्दर्शनसमुच्चये भगवतोऽतिशयचतुष्टयमाक्षिप्तम् । सद्दर्शनमिति दर्शनज्ञानयोः' सहचारित्वोज्ज्ञानातिशयः । जिनं वीरमिति रागादिजेतृत्वात् अष्टकर्माद्यपानिराकर्तृत्वाच्च अपायापगमातिशयः । स्याद्वाददेशकमिति वचनातिशयः । ईदृग्विधस्य निरन्तरभक्तिभरनिर्भरसुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजातिशयः, इति प्रथमश्लोकार्थ ॥१॥ कानि तानि दर्शनानीति व्यक्तितस्तत्संख्यामाह
दर्शनानि षडेवात्र मूलभेदव्यपेक्षया ।
देवतातत्वभेदेन ज्ञातव्यानि मनीषिभिः ।।२।। अन्न जगति प्रसिद्धानि षडेव दर्शनानि । एवशब्दोऽवधारणे । यद्यपि भेदप्रभेदैतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तं सूत्रे--
"असियसय किरियाणं अकिरियवाईण हंति चुलसीई।
अनाणिय सत्तट्ठी वेणइआणं च वत्तीसं ॥"[ ] इति त्रिषष्टयधिका त्रिशती पाषण्डिकानाम् । बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः । जैमिनेश्च शिष्यकृता बहवो भेदाः ।
"उत्पलः कारिका वेत्ति तन्त्रं वेत्ति प्रभाकरः।
वामनस्तूमयं वेत्ति न किंचिदपि रेवणः ॥" अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्राभाकरादयो बहवोऽन्तर्भेदाः । अपरेषामपि दर्शनानां देवतातत्त्वप्रमाणादिभिन्नतया बहुभेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात् षडेवेति सावधारणं पदम् । ननु संघटमानानियतो भेदानुपेक्ष्य किमर्थ षडेवेत्याह । मूलभेदग्यपेक्षया। मूलभेदास्तावत् षडेव 'षटसंख्यास्तेषां व्यपेक्षया तानाश्रित्येत्यर्थः । तानि च दर्शनानि मनीषिभिः पण्डितैतिव्यानि बोद्धव्यानि । केन प्रकारेणेति । देवतातरवभेदेन । देवता दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधनानि रहस्यानि, तेषां भेदस्तेन पृथक्-पृथक् दर्शनदेवतादर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥ तेषामेव दर्शनानां नामान्याह
बौद्धं नैयायिक सांख्यं जेन वैशेषिक तथा।
जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ अहो इति इष्टामन्त्रणे । दर्शनानां मतानाममूनि नामानीति संग्रहः । ज्ञेयानीति क्रिया, अस्तिभवत्यादिवदनुक्ताप्यवगन्तव्या। तत्र बौद्धमिति बुद्धो देवतास्येति बौद्धं सौगतदर्शनम् । नैयायिकं पाशुपतदर्शनम् । तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति 'व्युत्पत्तिः । सांख्यमिति कापिलदर्शनम् । आदिपुरुषनिमित्तेयं संज्ञा । जैनमिति जिनो देवतास्यति जैनमार्हतं दर्शनम् । वैशेषिकम् इति काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्रया विशिष्टमिति वैशेषिकम् । जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् । चः समुच्चयस्य दर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ॥३॥ अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्बौद्धदर्शनमेवादावाचष्टे
तत्र बौद्धमते तावद्देवता सुगतः किल। चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥४॥
१. दर्शनज्ञानयोः प. १, मु..। २.-रित्वेन ज्ञा-प.२ । ३.-भेदेन ब-म.१।४. पाषण्डिनां प. १,२।
५. तानि द-म., म. १, २, प.२। ६. इदं चिन्त्यम् । इत्थं हि न्याय्यमिति स्यात् । नैयायिकेति पदं 'तूक्थादिगणघटकन्यायशब्दादध्यववेदित्रन्यतरार्थकठका निष्पद्यते । मु. टि. । ७. -यस्पर्शकः प. १, २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536