Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 501
________________ परिशिष्टम् । ४७५ द्वैधात् निरवयवत्वान्नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती भवतः । तत्रव 'प्रयोगे दृष्टान्तधर्म कंचित्साध्यमिण्यापादयन्नुत्कर्षसमां जाति प्रयुङ्क्ते। यदि घटवत्कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवेद्, न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः एवं शब्दोऽपि भवेद्, 'नो चेद् मूर्तो घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोस्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः एवं शब्दोऽपि भवेत । नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वं धर्ममपकर्षति । वर्ष्यावया॑भ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती भवतः । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यस्तावेतौ वर्ष्यावौँ साध्यदृष्टान्तधर्मों विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते । यथाविधः शब्दधर्मः कृतकत्वादि न तादृग् घटधर्मो यादृग् घटधर्मो न तादृक् शब्दधर्म इति साध्यधर्मदृष्टान्तधौं हि तुल्यौ कर्तव्यो। अत्र तु विपर्यासः, यतो यादृग्घटधर्मः कृतकत्वादि न तादृक् शब्दधर्मः। घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वम् । शब्दस्य हि ताल्वोष्ठादिव्यापारजमिति । धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किंचिन्मृदु दृष्टं राङ्कव शय्यादि, किंचित्कठोरं कुठारादि एवं कृतकं किंचिदनित्यं भविष्यति घटादिकम्, किंचिन्नित्यं शब्दादीति । साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः । यदि यथा घटः तथा शब्दः' प्राप्तः तहि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यं साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात् सुतरामदृष्टान्त इति । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती। यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साधयत्यप्राप्यं 'वा । प्राप्य चेत् द्वयोविद्यमानयोरेव प्राप्तिर्भवति न तत्सदसतोरिति, द्वयोश्च सत्त्वात्कि कस्य साध्यं साधनं वा। अप्राप्य तु साधनमयुक्तम्; अतिप्रसङ्गादिति । अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याहयद्यनित्यत्वे कृतकत्वं साधनं कृतकत्वे 'ईदानों कि साधनं तत्साधने कि साधनमिति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह-यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनं भङ्गयन्तरेण प्रत्यवस्थानात् । अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमा जातिः । यथानुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते, तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति । साधर्म्यसमा वैधर्म्यसमा वा" या जातियथा पूर्वमुदाहृता, सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति । यथा कि घटसाधात्कृतकत्वादनित्यः शब्दः, 'किं वा तद्वैधयेणाकाशसाधा निरवयवत्वान्नित्य इति । द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति । तत्रैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति, उद्भावनप्रकारभेदमात्र सति नानात्वं द्रष्टव्यम् । काल्यानुपपत्त्या हेतोः प्रत्यवस्थापनहेतुसमा जातिः । यथा हेतुः साधनम, तत्साध्यात्पूर्वं पश्चाद्वा सह वा भवेत् । यदि पूर्वम्, असति साध्ये तत्कस्य साधनम् । अथ पश्चात्साधनम्; पूर्व तर्हि 'साध्यं तस्मिश्च पूर्वसिद्धे किं साधनेन । अथ युगपत्साध्यसाधने; तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति । अर्थापत्त्या प्रत्यवस्थानम् अर्थापत्तिसमा २४ १. -कि-भ..। २. मूर्तो भ-प. १ । ३. न प. २ । ४. -वणध-मु., प. १, २, भ. १। ५. -दिना न तादृग् घटधर्मो न ता-मु., प. १,२, म.१। ६.-न्तरे वि-मु.,प. १, २, भ. १ । ७. ववस्त्रादि भ. २। ८. कठिनं कु-भ. २। ९.-साधापा- १।१०. यथा घ-मु., प. २, म. १ । ११. प्राप्त म. २। १२. साध्यः भ. २ । १३. -स्य दृष्टान्तो विरुद्धलक्षणत्वान्न दृष्टा-मु.। १४-१७. -प्यं प. २, म. १, मु.। १८. -कत्वमिदा-मु., प. १,२, म. १। १९. -त्यस्ये-भ. २। २०. वा जातिपूर्व -प. २, म. १,२। २१. उत तद्वैधादाका-म, १,२। २२.-साम्या-भ. १,२। २३. -पनाबु -प.१ । २४. -श्चात् सह वा भ. १, २ । २५. भवति म.२। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536