________________
परिशिष्टम् ।
४७५ द्वैधात् निरवयवत्वान्नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती भवतः । तत्रव 'प्रयोगे दृष्टान्तधर्म कंचित्साध्यमिण्यापादयन्नुत्कर्षसमां जाति प्रयुङ्क्ते। यदि घटवत्कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवेद्, न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः एवं शब्दोऽपि भवेद्, 'नो चेद् मूर्तो घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोस्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः एवं शब्दोऽपि भवेत । नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वं धर्ममपकर्षति । वर्ष्यावया॑भ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती भवतः । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यस्तावेतौ वर्ष्यावौँ साध्यदृष्टान्तधर्मों विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते । यथाविधः शब्दधर्मः कृतकत्वादि न तादृग् घटधर्मो यादृग् घटधर्मो न तादृक् शब्दधर्म इति साध्यधर्मदृष्टान्तधौं हि तुल्यौ कर्तव्यो। अत्र तु विपर्यासः, यतो यादृग्घटधर्मः कृतकत्वादि न तादृक् शब्दधर्मः। घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वम् । शब्दस्य हि ताल्वोष्ठादिव्यापारजमिति । धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किंचिन्मृदु दृष्टं राङ्कव शय्यादि, किंचित्कठोरं कुठारादि एवं कृतकं किंचिदनित्यं भविष्यति घटादिकम्, किंचिन्नित्यं शब्दादीति । साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः । यदि यथा घटः तथा शब्दः' प्राप्तः तहि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यं साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात् सुतरामदृष्टान्त इति । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती। यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साधयत्यप्राप्यं 'वा । प्राप्य चेत् द्वयोविद्यमानयोरेव प्राप्तिर्भवति न तत्सदसतोरिति, द्वयोश्च सत्त्वात्कि कस्य साध्यं साधनं वा। अप्राप्य तु साधनमयुक्तम्; अतिप्रसङ्गादिति । अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याहयद्यनित्यत्वे कृतकत्वं साधनं कृतकत्वे 'ईदानों कि साधनं तत्साधने कि साधनमिति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह-यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनं भङ्गयन्तरेण प्रत्यवस्थानात् । अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमा जातिः । यथानुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते, तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति । साधर्म्यसमा वैधर्म्यसमा वा" या जातियथा पूर्वमुदाहृता, सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति । यथा कि घटसाधात्कृतकत्वादनित्यः शब्दः, 'किं वा तद्वैधयेणाकाशसाधा निरवयवत्वान्नित्य इति । द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति । तत्रैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति, उद्भावनप्रकारभेदमात्र सति नानात्वं द्रष्टव्यम् । काल्यानुपपत्त्या हेतोः प्रत्यवस्थापनहेतुसमा जातिः । यथा हेतुः साधनम, तत्साध्यात्पूर्वं पश्चाद्वा सह वा भवेत् । यदि पूर्वम्, असति साध्ये तत्कस्य साधनम् । अथ पश्चात्साधनम्; पूर्व तर्हि 'साध्यं तस्मिश्च पूर्वसिद्धे किं साधनेन । अथ युगपत्साध्यसाधने; तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति । अर्थापत्त्या प्रत्यवस्थानम् अर्थापत्तिसमा
२४
१. -कि-भ..। २. मूर्तो भ-प. १ । ३. न प. २ । ४. -वणध-मु., प. १, २, भ. १। ५. -दिना न तादृग् घटधर्मो न ता-मु., प. १,२, म.१। ६.-न्तरे वि-मु.,प. १, २, भ. १ । ७. ववस्त्रादि भ. २। ८. कठिनं कु-भ. २। ९.-साधापा- १।१०. यथा घ-मु., प. २, म. १ । ११. प्राप्त म. २। १२. साध्यः भ. २ । १३. -स्य दृष्टान्तो विरुद्धलक्षणत्वान्न दृष्टा-मु.। १४-१७. -प्यं प. २, म. १, मु.। १८. -कत्वमिदा-मु., प. १,२, म. १। १९. -त्यस्ये-भ. २। २०. वा जातिपूर्व -प. २, म. १,२। २१. उत तद्वैधादाका-म, १,२। २२.-साम्या-भ. १,२। २३. -पनाबु -प.१ । २४. -श्चात् सह वा भ. १, २ । २५. भवति म.२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org