________________
४७४
षड्दर्शनसमुच्चये "दु:शिक्षितकुतकांशलेशवाचालितानमाः। शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः। .
मा गादिति च्छकादीनि प्राह कारुणिको मुनिः ॥" इति । संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपक्षस्थापनमनुमतम । परविजये हि धर्मध्वंसादिदोषसंभवस्तस्माद्वरं छलादिभिरपि जयः। सा वितण्डा तु या प्रतिपक्षविवर्जिता। सा पुनर्वितण्डा, या। किम् । विजिगीषुकथेव प्रतिपक्षविवर्जिता । वादिप्रयुक्तपक्षप्रतिरोधकः प्रतिवाद्यपन्यासः प्रतिपक्षस्तेन विवर्जिता रहितेति प्रतिपक्षसाधनविहीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किञ्चिद्वादेन परोक्तमेवं दूषयतीत्यर्थः ॥३०॥
हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः।
जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥३१॥ हेवाभासा ज्ञेया इति । के ते। इत्याह-असिद्धायाः, असिद्धविरुद्धानेकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः । विपक्षे सन सपक्षे चासन विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः । 'विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः । उदाहरणानि स्वयमभ्यूह्यानि ।
छल कूपो नवोदक इति परोपन्यस्तवादे स्वाभिमतान्तरकल्पनया वचनविधातश्छलम् । कथमित्याह-वादिना कूपो नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दुषयति । कूत एक एव कपो नवसंख्योदक इति वाकछलम । प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-संभावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम् । यथा अहो तु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति-संभवति ब्राह्मणे विद्याचरणसंपदिति। तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वन्नभियुङ्क्ते । यदि ब्राह्मणे विद्याचरणसंपद्भवति व्रात्येऽपि सा भवेद्वात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्, उपचारच्छलम् । यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति ।
जातय इत्यादि । दूषणाभासा जातयः । अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभासाः । - यैः, किम् । पक्षादिन दृष्यते, आभासमात्रत्वान्न पक्षदोषः समुद्भावयितुं शक्यते केवलं सम्यगहेतौ हेत्वाभासे वा वान्दिना प्रयुक्ते झगिति तद्दोषतत्त्वानवभासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिः । सा चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन । यथा साधर्म्य-वैधर्म्य-उत्कर्ष-अपकर्ष-वर्ण्य-अवर्ण्य-विकल्प-साध्यप्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुत्पत्ति-संशय-प्रकरण- अहेतु-अर्थापत्ति-अविशेष-उपपत्ति-उपलधिअनुपलब्धि-नित्य-अनित्य-कार्यसमाः । तत्र साधयेन प्रत्यवस्थानं साधर्म्यसमा जातिर्भवति । 'अनित्यः शब्दः कृतकत्वात् घटवत्' इति प्रयोगे' कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्-नित्यः शब्दो निरवयवत्वात् आकाशवत् । न चास्ति विशेषहेतुः घटसाधात् कृतकत्वात् अनित्यः शब्दः न पुनः आकाशसाधान्निरवयवत्वात् नित्य इति । वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिभवति अनित्यः शब्दः कृतकत्वात् घंटवत् इत्यत्रैव प्रयोगे स एव हेतुर्वैधhण प्रयुज्यते नित्यः शब्दो निरवयवत्वात् अनित्यं हि सावयवं दृष्टं घटादीति । न चास्ति विशेषहेतुः घटसाधात् कृतकत्वात् अनित्यः शब्दः न पुनस्त
१.-ण्डादोषम-मु., प. १, २, म. १ । २.-क्षजिता भ. २ । ३.-नाही-भ. २। ४. -क्तं दू-म. १, २, मु.। ५. प्रत्यक्षादिवि-प. २। प्रत्यक्षाणमवि-प. १, म.। ६. विशेषाग्रहणं म. २ । ७. -नं प्र-भ. २। ८.गे कृते छ-म, २। ९. न्यस्य हे-भं.२। १०. यैः प-मु., प. १,२, म. १ । ११. -ष उ-म.१,२।१२. -ष्टं यथा घ-म. १, २, प. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org