________________
परिशिष्टम् ।
४७३ अवयवाः पञ्चेति संबन्धः । पूर्वार्द्धमाह-प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति पञ्चावयवाः । तत्र प्रतिज्ञा पक्षः, कृशानुमानयं सानुमानित्यादि । हेतुर्लिङ्गवचनम्, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणवचनम्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि । उपनयो हे तोरुपसंहारकं वचनम्, धूमवांश्चायमित्यादि । निगमनं हेतुपदेशेन पुनः साध्यधर्मोपसंहरणं तस्माद्वह्निमानित्यादि । इति पञ्चावयवस्वरूपनिरूपणम्, इति अवयवतत्त्वं ज्ञेयमिति । तर्कः संशयोपरमो भवेत् । यथा काकेत्यादि । दूरादग्गोचरे स्पष्टप्रतिभासाभावात किमयं स्थाणुर्वा पुरुषो वेति संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्त्वं स्यात् । कथमित्याहयथेति । दूरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति । काकादिसंपातादिशब्दाद्वल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः । वायसप्रभृतिसंबन्धादत्र स्थाणुनी मान्यं कोलकेन भवितव्यम् । पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः। एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति । ऊर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यामूर्ध्वमुत्तरं यः प्रत्यय; स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तत्वविशेषो ज्ञेयः । यत्तदावर्थसंबन्धादनुक्तावपि ज्ञेयौ ॥२८॥
'वादतत्त्वमाह
आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् ।
यः कथाभ्यासहेतुः स्यादसो वाद उदाहृतः ॥२९॥ असौ वाद उदाहृतः कथितस्तज्जरित्यर्थः। यः कः । इत्याह-कथाभ्यासहेतुः। कथा प्रामाणिकी तस्या अभ्यासहेतुः कारणम् । कयोः आचार्यशिष्ययोः। आचार्यों गुरुरध्यापकः, शिष्यश्चाध्येता 'विज्ञेय इति । कस्मात् । पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादि "परिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञादि 'प्रतिपन्थिकोपन्यासप्रौढिः तयोः परिग्रहात्संग्रहादित्यर्थः । आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे । शिष्यश्चोत्तरपक्षमररीकृत्य पूर्वपक्षं खण्डयति । एवं निग्राहकजयपराजयच्छलजात्यादि निरपेक्षतया अभ्यासनिमित्तम् । पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यो गोष्ठी कुरुतः स वादो ज्ञेयः ॥२९॥
अथ तद्विशेषमाह
विजिगोषुकथायां" तु च्छलजात्यादिदूषणम् ।।
स जल्पः सा वितण्डा तु या प्रतिपक्षविजिता ॥३०॥ स जल्प इति संबन्धः । यत् तु विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठयां सत्यां छलजात्यादिदूषणम् । छलं त्रिप्रकारम्-वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति, जातयश्चतुविशतिभेदाः, आदिशब्दान्निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तपक्षादेर्दूषणजालमुत्पाद्य निराकरणम् । अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैः परप्रयोगस्य दूषणोत्पादनम् । तथा चोक्तम्
१. प्रतिज्ञा हेतुर्दृष्टान्त उपनयो म. १, प. १ । २. -यं पर्वत इत्यादि प. २. । ३. -त्वादिति प...। ४.-स इत्यादि प. १, २, म. १ । ५. -णम् अव-मु.प. १, भ. १,२। ६. –णुना कीलकेन भाव्यं पुरु- म. २ । ७. -दिभिया का-म. १। ८. -ध्वंमनन्तरं यः प. १, २, म.२। ९.-तज्ज्ञ रिति यः किमित्याह प. १,२, म. २। १०. -सः का-मु.। -सका-प. १। -से का-भ. २ । ११. विज्ञेय मु., म. १,३।१२.-दिसंग्रहः प. १,२। १३. पञ्चको-मु., प. १, २, भ, १ । १४. क्षमङ्गीकृत्य प.२। १५. -धनपेक्षितया म. २ । १६. -क्षसंग्रहेण म. ३ । १७. -या तु मु., म. १, २ । १८. यत् वि-मु., प. १, २, भ. १ । १९. -पनमेव स-म.२ ।
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org