________________
૪૭૨
षड्दर्शनसमुच्चये उपमानं व्यावर्ण्य शब्दप्रमाणमाह
शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् ।
प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥२४॥ तु पुनराप्तोपदेशः शाब्दम् । अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः । ।
___ अथ प्रमेयलक्षणमाह-'प्रमेयं स्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति' प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः । तच्च नैयायिक - सूत्र आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदु:खापवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मेरात्मा प्रमीयते । एवं देहादयोऽपि प्रमेयता ज्ञेयाः । अत्र तु ग्रन्थं विस्तारभयान्न प्रपञ्चिता इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्चेति ॥२४॥ संशयादिस्वरूपमाह
किमेतदिति संदिग्धः प्रत्ययः संशयो मतः।
प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥२५॥ दूरावलोकनेन पदार्थपरिच्छेदक धर्मेषु संशयानः प्राह-किमेतदिति । एतत्कि स्थाणुर्वा पुरुषो वेति यः संदिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः संमतः तच्छासन इति । प्रयोजनमाह-तत्तु तत्पुनः प्रयोजनं नाम तत्त्वं यत्किमित्याह-अर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते । प्रतीत्यध्याहार्यम् । न हि निष्फलकार्यारम्भ इत्यथित्वादुक्तम् । एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ॥२५॥
दृष्टान्तस्तु भवेदेष विवादविषयो न यः।
सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥ - व्याख्या-तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् । यत्किमिति । विवादविषयो ''नयः यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति । इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः। तावच्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न "स्पष्टं दृष्टान्तोपष्टम्भः । उक्तं च
"तावदेव चलत्यर्थो" मन्तुर्गोचरमागतः ।
यावनोत्तम्मनेनैव दृष्टान्नावलम्ब्यते ॥" एष दृष्टान्तो ज्ञेयः ।
सिद्धान्तः पुनश्चतुर्मेदो भवेत् । कथमित्याह-पर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः । आदिशब्दाद्भेदत्रयमिदं ज्ञेयम् । यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । अमी चत्वारः सिद्धान्तभेदाः । नाममात्रकथनमिदम्, विस्तरप्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥२६॥ अवयवादितत्त्वत्रयस्वरूपमाह
प्रतिज्ञाहेतुदृष्टान्तोपनया 'निगमस्तथा। अवयवाः पञ्च तकः संशयोपरमो भवेत् ॥२७॥ यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥
१. चात्म-7.१,२,मु.। २.-म् आप्त इति अ-प...., म.१। ३. प्रत्ययिता ज-.२।४.-देशो देशनावा-प. १, २, म. १ । ५. -श्चेत्यादि द्व-म.., प.१,२। ६. -त्रं तच्च आ-. १,.,म.१। ७. -स्तरभ-प. १, २, भ, १।८.-त इ-म.। ९, -त्वादिति भ. १।१०.-कविज्ञेयध-प.१,भ. १। ११. -यः सं-प. १,२ । १२. न यस्मि-प.., भ.१,२ । १३. स्पष्टदृष्टान्तावष्टम्भः म.१।१४. मन्तुविषयमा-प. १, २, भ.१। १५. विशेषार्थो ज्ञेयः म. १, प. १ । १६. गमनं तथा प. १, भ. ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org