________________
परिशिष्टम् । "गम्मीरगर्जितारम्भनिर्मिन्नगिरिगहराः।
तुअत्तडिल्लतासङ्गपिशजोत्तुङ्गधिग्रहाः ॥" [ न्यायम० ] इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥२०॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाह
कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । . तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥२१॥ 'यरकार्यात् फलाकारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवदनुमानं मतं कथितं नैयायिकशासने । यथा तथाविधनदीपूरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसंभारभरितो यो नदीपूरः सरित्प्रवाह स्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेषवत । अत्र कार्य नदीपूरः कारेणं च पर्वतोपरि मेघो वृष्ट इति । उक्त च नैयायिकैः
"भावर्तवतनाशालिविशालकलुषोदकः । कल्लोलविकटास्फास्फुटफेनच्छटाङ्कितः ॥ वहबहुम्शेवाल फलशाड्वकसंकुलः ।
नदीपुरविशेषोऽपि शक्यते न निवेदितुम् ॥"[ ] इति ॥२१॥ तृतीयानुमानमाह
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका।
पुंसि देशान्तरप्राप्तियथा सूर्येऽपि सा तथा ॥२२॥ च: पुनरर्थे । यत् सामान्यतो दृष्ठमनुमानं तदेवममुना वक्ष्यमाणप्रकारेण । यथा पुसि पुरुषे देवदत्तादौ देशान्तस्मासितिपूर्विका । एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वकमित्यर्थः । यथोज्जयिन्याः प्रस्थितो देवदत्तो माहिष्मती पुरीं प्रातः । सूर्येऽपि सा तथेति, यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि मगने संचरतः सूर्यस्य नेत्रावलोक प्रसरणाभावेन गतिर्नोपलभ्यते, तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बनं गति सूचयति । एवं सामान्यतोदृष्टमनुमानं ज्ञेयमित्यर्थः ॥२२॥ अथ क्रमायातमपि शाब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्ष्यादावुपमानलक्षणमाह
प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् ।
उपमानं 'तदाख्यातं यथा मोगवयस्तथा ॥२३॥ तदुच्यमानमुपमानमाख्यातं कथितम् । यत्तदोनित्य संबन्धात् । यत्किचित् अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते । प्रसिद्धधर्मसाधयादिति", प्रसिद्धा (द्धः) आबालगोपालाङ्गनाविदितोऽसौ धर्मोऽसाधारणलक्षणं तस्य साधर्म्य समानधर्मत्वं तस्मादित्युपमानमाख्यातम् । दृष्टान्तमाह-यया गौवयस्तथेति । यथा कश्चिदरण्यवासी "नागरिकेण कोदृग्गवय इति पृष्टः, स च परिचितगोगवयलक्षणो नागरिक प्राह यथा गौस्तथा गवयः, खुरककुदलाङ्गेलसास्नादिमान्' यादृशो मौस्तथा जन्मसिद्धोगवयोऽपि ज्ञेय इत्यर्थः । अत्र प्रसिद्धो गौस्तत्साधादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥
10
१. यच्च का-म. १,२। २. -णं प-र. १। ३. नो प. म. २। ४. –ना प्र-म. २, प. १, २, मुः। ५.-प्रसराभा-म. १। ६.-टं नामानु-म.१ ७.-मक्तत्वा -मु., प. १, २, म. २। ८.-द्धधर्मसा- भ. १। ९. समाख्या- म. २, ५. १, २, मु.। १०. तदुपमानप्रमाणमा-प.१। ११.-त्याभिस-प्र.१ १२. यत्किमप्र- मु., प. २, म १, २ । १३.-ति आ-मु., प.१,२, म. । १४. -णं ल-प. १,२। १५. त्वं तत इति तदुप-म.१-त्वमिति तदुप-प. २। १६. नागरकेण क..। १७. -मप्रति-प. २। १८. -पि तादृशो ज्ञे-प.१,२, म. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org