________________
४७०
षड्दर्शनसमुच्चये व्यवसायात्मकं ज्ञानं व्यपदेशविवजितम् ।
प्रत्यक्षमितरन्मानं तत्पूर्व त्रिविधं भवेत् ॥१८॥ पत्र प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृगिति संबन्धः । विशेषणान्याह-इन्द्रियार्थसंनिकर्षोत्पश्चमिति । इन्द्रियं चार्थश्चेति द्वन्द्वः, लयोः संनिकर्षात्संयोगादुत्पन्नं जातम् । इन्द्रियं हि नैकट्यात् पदार्थे ' संयुज्यते । इन्द्रियार्थसंयोगाज् ज्ञानमुत्पद्यते । यदुक्तम्
"भामा सहेति मनसा मन इन्द्रियेण, . स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥" [ तत्राग्यभिचारिक ज्ञानान्तरेण नान्यथाभावि । शक्तिशकले कलधौतबोधो हीन्द्रियार्थसंनिकर्षोंत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् । तथा व्यवसायात्मकं व्यवहारसाधकम् । सजलधरणितले हि बहलशाद्वलवृक्षावल्यामिन्द्रियार्थसानिध्योद्गतमपि जलज्ञानं तत्प्रदेशसंगमेऽपि स्नानपानां दिव्यवहारासाधकत्वादप्रमाणम् । अतः सफलं व्यवसायात्मकमिति विशेषणम् । तथा व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितम् । तथाहि-आजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्व धवलशङ्के पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्थसंनिकर्षोत्पन्नमस्ति तथाप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् ।
साम्प्रतमनुमानमाह । इतरदन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्व प्रथमं त्रिविधं त्रिप्रकारक भवेज्जायेत पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह । तत्पूर्व प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ॥१७-१८॥ अनुमानत्रविध्यमाह
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा।
तत्राद्यं कारणात्कार्यमनुमानमिह गोयते ॥१९॥ पूर्ववत् शेषवत् सामान्यतोदृष्टं चेत्यनुमानत्रयम् । चः समुच्चये । एवेति पूरणार्थे । तथेति उपदर्शने। तत्र त्रिषु मध्ये, भाद्यमनुमान मिह शास्त्रे कारणार कार्यमनुमानमुदितं कारणान्मघात् कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्य नामानुमानं कथितमित्यर्थः ॥१९॥ निदर्शनेन तमेवार्थ द्रढयन्नाह यथा
रोलम्बगवलव्यालतमालमलिनत्विषः ।
, वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥ यथेति दृष्टान्तकथनारम्भे । रोलम्बाः भ्रमराः, गवळं माहिषं शृङ्गम्, व्याला गजाः, सर्पा वा, समाला वृक्षविशेषाः, सर्वेऽप्यमी "कृष्णाः पदार्थाः स्वभाक्तो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवंप्राया एवंविधाः पयोमुचो मेघा वृष्टिं न व्यभिचरन्तीति । एवंप्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादि. विशेषा ज्ञेयाः । यदुक्तम्
१. -र्थेषु सं-प. २ । -र्थेन सं-भ. १, २ । २. -र्थयोहि सं-भ. १, २ । ३. -गाच्च ज्ञा-भ. १, २ । ४. शीघ्रः भ. १, ३। ५. तथाव्य-भ. १, २ । ६. -चारकम् प. २, म १ । ७. चारकम् प. २ । ८-नावमाहनादि भ. १,२।९. -ले श-प. १,२।१०.-मुक्त्वा सा- म. १, २ । ११.-ध्यमेवाह प.। १२. -मिहोदितम् भ. १,२। १३. -त्रितयम् भ. १,२। १४. र्यमुदितम् भ. १,२ । १५. -यं नामा-म. १,२ । १६. -ह रो-मु., प. १, २ । १७. सर्पो वा प. १ । १८. कृष्णप-प. १, म. १, २ । १९. -लतादि-प. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org