________________
४७६
षड्दर्शनसमुच्चये
जातिः यद्यनित्यसाधात्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते, नित्यसाधान्नित्य इति । अस्ति चास्य नित्येनाकाशेन साधयं निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति । अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवति पक्षद्वयोपपत्त्या अनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् । उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम्, साधनं तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वम्, शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये 'तथेति । अनुपलब्ध्याप्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते, सत्याह जातिवादी न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्येवासौ, आवरणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भान्नास्त्येव शब्द इति चेत्, न; आवरणानुपलम्भेऽप्यनुपलम्भसद्भावादावरणानुपलब्धेश्चानुपलम्भादभावः तदभावे चावरणोपलब्धर्भावो भवति । ततश्च मदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्याभावान्नित्यः शब्द इति । साध्यधर्मनित्यानित्यत्वविकल्पेन शब्दनित्यतापादनं नित्यसमा जातिः । यथा अनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति येयमनित्यता शब्दस्योच्यते सा किमनित्या, नित्या वेति । यद्यनित्या; तदियमवश्यमपायिनीत्यनित्यताया अभावान्नित्यः शब्दः । अथ अनित्यता नित्यैवेति "तथापि धर्मस्य नित्यत्वात्तस्य च "निराश्रितस्यानुपपत्तेः तदाश्रयभूतः शब्दोऽपि नित्य एव "भवेत् । स चेन्न; तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि" नित्यः शब्द इति । एवं "सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः । यथा घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते तद घटेन सर्वपदार्थानामस्त्येव किमपि 'साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथाभावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्मा भदिति अनित्यत्वमात्रापादनपूर्वकविशेषोद्धावनाच्चाविशेषसमातो भिन्नेयं जातिः । प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्था कार्यसमा जातिः । यथानित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह-प्रयत्नस्य द्वरूप्यं दृष्टं किंचिदसदेव तेन जन्यते यथा घटादिकम्, किंचित्सदेवावरणव्युदासादिना अभिव्यजते यथा मृदन्तरितमूलकीलादि । एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन शब्दो व्युज्यते जन्यते वेति संशय इति संशयापादानप्रकारभेदाच्च संशयसमातः कार्यसमा जातिभिद्यते । तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्ये [अ] संकीर्णोदाहरणविवक्षया चतुर्विशतिजातिभेदा एते दर्शिता इति ।
दूषणाभासानुक्त्वा निग्रहस्थानमाह
निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवद्॥३२॥
१.-काशादिना सा-भ. २ । २-३. लब्धेन प्र-म. २। ४. तथैवेति भ.। ५. -लब्धेन प्रत्यवस्थानादनु-मु., भ । ६.-कत्वमनित्यत्वे हे-प.। ७. स प्राह मु., भ २, प. २।८.-पलम्भोप्य-प. १॥ ९. तदन्त-म., प. २, भ. १,२। १०.-त्यत्वापा-म. २, प. १,२। ११. अपायान्नि -प. १. म. २। १२. अथ नित्यैव भ. १, प. १, २, मु.। १३. -त्यैव तथा-१.१,२ । १४. निराश्रयस्या-भ । १५. -एव स-प. १, म. १, २, मु. । एव चेत्तदनि-प. १, मं. १,२। १६. -त् तद-प. २। १७. -था नि-म.। १८.-वानामनि-प.२ १९. -त्येन म, १,२,प.१,२। २०. व्यज्य-म. । २१. -दतः प.२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org