Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 530
________________ षड्दर्शनसमुच्चये हेतोरुपसंहारकं वचनम्, धूमवांश्चायम् । निगमनं हेतुपदेशेन पुनः साधम्र्योपसंहरणम्, तद्वह्नि तस्माद् वह्निमान् पर्वत इत्यादि पञ्चावयवस्वरूपनिरूपणमवयवतत्त्वम् [ज्ञेयमिति ] । दूराद् दृगगोचरे स्पष्टप्रतिभासाभावात् 'किमयं स्थाणुर्वा पुरुषो वा' इति संशयः, तदुपरमे काकादिपतनावलोकनेन आदिशब्दात् स्थाणुधर्मो [र्मा] ग्राह्यः, अत्र कोलकेन भाव्यम्, पुरुषस्य शिरः कम्पनहस्तचालनादिभावात् । स्थाणुरेवायं पुरुष एवायमिति वः प्रतीतिविषयः । [ स निर्णयः ] ॥२७ - २८|| कथा प्रामाणिकी तस्या अभ्यासकारणं या सा वादः पक्षः प्रतिज्ञा प्रतिपक्षः प्रतिज्ञोपन्यासप्रतिपंथी तयोः संग्रहात्, निग्राहकजयपराजयानपेक्षगुरुविनेययोः ॥ २९ ॥ विजयाभिलाषिणो वादिनः प्रतिवादिनश्च प्रारब्धप्रमाणोपन्यासगोष्ठी छलं त्रिधा - वाक्छलम्, सामान्यछलम्, उपचारछलम् । जातयः २४ भेदाः । आदे [दिशब्दात् ] निग्रहस्थानानि [ दि]। एतैः कृत्वा परपक्षनिराकरणं दूषणोत्पादेन [पादनेन] स्वमात[मत]स्थापनेन स्व[स] जल्पः । सा वितण्डा, या वादिप्रयुक्तपक्ष प्रतिरोधक प्रतिवादिन्यस्तप्रतिपक्षरहिता ॥३०॥ हेतुरूपवदाभासन्ते हेत्वाभासाः पञ्च । पक्षे [क्ष ] धर्मत्वं नास्ति सोऽसिद्धः । विपक्षे सन् प्रतिपक्षे [ सपक्षे] ar [चा] सन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षागमविरोधः कालात्ययापदिष्टः । विशेषाग्रहणं हेतुत्वेन प्रयुज्यमानं प्रकरणसमः । परोपन्यस्तवादे स्वाभिमतकल्पनया वचनविघातः छलम् । नवोदकः प्रत्यग्रोदकः नवसंख्यामारोप्य दूषयति । मञ्चाः क्रोशन्तीति छलम् । अदूषणान्यपि दूषणवदाभासन्ते आभासमात्रत्वादेव पक्षं न दूषयन्ति जातयः [ जाति ] साधर्म्यादि । 'अनित्यः शब्दः कृतकत्वात् घटवत्' वादिनेत्युक्ते प्रतिवाद्याह - नित्यः शब्दो निरवयवत्वादाकाशवत् । न चात्र हेतुः घटवदनित्यत्वे आकाशवन्नित्यत्वे नित्यत्वेऽप्साकाशवत् वास्ति ||३१|| येन केनचिद्द्रव्येण विपक्षो निगृह्यते तन्निग्रहस्थानम् । प्रतिज्ञाशब्दः संबध्यते - प्रतिज्ञाहानिः प्रतिज्ञासंन्यासः प्रतिज्ञाविरोध इत्यादि । हेती अनैकान्तिके कृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तधर्मेऽभ्युपगच्छतः प्रतिज्ञाहानिनिग्रहस्थानम्, यथा अनित्यः शब्द ऐन्द्रियकत्वात् घटवदिति प्रतिज्ञा साधनाभासवादी वदन् परेण 'सामान्य मैन्द्रियकमपि नित्यं दृष्टम्' इति हेतावनेकान्ते कृते यद्येवं ब्रूयात् 'सामान्यवद् घटोऽपि नित्यो भवति' इति ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां त्यजेत् 'पक्षसाधनदूषणोद्धारागक्त्या प्रतिज्ञामेव निह्नुवानस्य प्रतिज्ञासंन्यासो निग्रहस्थानम् । यथानित्यः शब्द ऐन्द्रियकत्वेन तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह अनित्यः शब्द इति प्रतिज्ञासंन्यासः । प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः निग्रहस्थानम् । यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति प्रतिज्ञाहेत्वोविरोधः । येदि गुणद्रव्यातिरिक्तं तदेयं प्रतिज्ञा विरुद्धाभिधानात् पराजीयते ॥ ३२ ॥ पूर्वार्धं सुगमम् । सांख्याः क ( का ) पिलाः, अपि [आदि ] पुरुषनिमित्तेयं संज्ञा । तदभीष्ट [भीष्टाश्च] पञ्चविंशतितत्त्वादिभावानां संक्षेपः कथ्यते ॥ ३३॥ ईश्वरं देवताये [तया ] न मन्यन्ते केवलाघ्यात्मवादिनः । केचित्पुनः ईश्वरदेवताः । तेषामुभयेषामपि तत्त्वानां पञ्चविंशतिर्भवति । तत्त्वं ह्यपपवर्गसाधकम् । यदुक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतिः । जटी मु शिखी वापि मुच्यते नात्र संशयः ||३४|| तावदिति प्रक्रमे । गुणत्रयम्, क्रमेण परिपाट्या विशेषयति । सत्त्वं प्रसाद[दः कार्यलिङ्गम्, वदननयनादिप्रसन्नता जनिरजसि [त] तदा आनन्दपर्यायः । तमोगुणे वा [च] दैन्यं वयो वियता [चो विच्छायता] नेत्रसंकोचादि । एतेनैव [न च] आधिभौतिक-आध्यात्मिक - आधिदैविकं [ दैव] लक्षणं दुःखत्रयमाक्षिप्यते ॥३५॥ एतेषां सत्त्वरजस्तमसां [मोगुणानां ] प्रीत्यप्रीतिरूपविषयरूपाणां [विषादरूपाणां ] समतयावस्थितिः सा किल प्रकृतिरुच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या [ शब्दवाच्या:- ] प्रकृतिः प्रधानमव्यक्तं चेति नामान्तरम् । शाश्वतभावतया प्रसिद्धा नित्या, नानापुरुषाश्रया या च प्रकृतिः ॥ ३६ ॥ ततो गुणत्रयाभिघातान्महानिति बुद्धिरुत्पद्यते । एवमेतन्नान्यथा, गौरेवायं नाश्वः स्थाणुरेवायं न पुरुष इति निश्चयेन पदार्थप्रतिपत्तिः । तस्याः ८ रूपाणि - धर्मज्ञानवैराग्यैश्वर्यरूपाणि सत्त्वभूतानि अधर्मादीनि च - असात्त्विकानि । ततो बुद्धेरहंकारोऽभिमानात्मकः तस्मादहंकारात् षोडशकगणमाह ||३७|| बुद्धिप्रधा नानि बुद्धिसहचराण्येवेति कृत्वा बुद्धीन्द्रियाणि । स्पर्शनं त्वगिन्द्रियम् । कर्म - क्रियासाधनानि इन्द्रियाणि कर्मेन्द्रियाणि । पायुरपानम् । उपस्थः प्रजननम् । वचः पाणिपादाः ( हस्ताः ) प्रसिद्धाः । मन एकादशम् । पञ्चतन्मात्राणि शब्दरूपरसगन्धस्पर्शाख्यानि । एवं षोडशको गु( ग ) णः || ३८-३९ || पञ्चभ्यस्तन्मात्रेभ्यो ५०४. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536