Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 508
________________ ४८२ षड्दर्शनसमुच्चये मोक्षः किमुच्यत इत्याह । पुरुषस्यात्मन आन्तरज्ञानात् त्रिविधबन्धविच्छेदात्प्रकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति । आन्तरज्ञानं च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात् त्रिविधः । तद्यथा, प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहंकारबुद्धीः पुरुषबुद्धयोपासते तेषां वैकारिकः । इष्टापूर्ते दाक्षिणः, इष्टापूर्त जनभोजनदानादिकं तस्मिन्, पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति ।। "इष्टापूर्त मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽमिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूस्वा इमं लोकं हीनतरं वा विशन्ति ॥" [ ] इति वचनात् । इति त्रिविधबन्धविच्छेदात्परमब्रह्मज्ञानानुभवस्ततः प्रकृतिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच्च निवृत्तायां प्रकृती, पुरुषस्य स्वरूपावस्थानं मोक्ष इति श्लोकपूर्वार्द्धार्थः । मानत्रितयं च प्रमाणत्रयं च, भवेत् स्यात, प्रत्यक्षं लैङ्गिक शब्दं च, चकारः सर्वत्र संबध्यते । प्रत्यक्षमिन्द्रियोपलभ्यम्, लैङ्गिकमनुमानगम्यम्, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् । अथोपसंहरन्नाह एवं सांख्यमतस्यापि समासः कथितोऽधुना। जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ।।४४।। एवं पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः। अपि समुच्चयार्थे न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति । सांख्य इति पुरुषनिमित्तेयं संज्ञा। संख्यस्य इमे सांख्याः । तालव्यो वा शकारः, शङ्खनामाऽऽदिपुरुषः । अथ क्रमायातं जैनमतोद्देशमाह-अधुनेत्युत्तरार्द्धन वा संबध्यते । अधुना इदानीं जैनदर्शनसंक्षेपः कथ्यते कथंभूत इति । सुविचारवान् । सुष्टु शोभनो विचारोऽर्थोऽस्यास्तीति मत्त्वर्थीये मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि। "पुराणं मानवो धर्मः साङ्गो वेदश्चिकिस्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥" [ . ] इत्याधुक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह-- "अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यास्परोक्षाया बिभेति किम् ॥" [ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः । उक्तं च ___ "पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः" ॥ [ ] इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणं विशेषणं ज्ञेयमिति । १. वैकारिक-प. १, २, म.१। २. हीष्टकारी मु., म. २। ३.-संहारमाह भ.१।४. गदितो- म. १। ५. संखस्य प.१,, भ.१। ६. अप्रामाणिकोऽयं कल्पः। प्रथमकल्पस्तु कथमपि संगमनीयः । वस्तुतस्तु, "शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते" इति व्यासस्मृत्या भावार्थकाङ्प्रत्ययनिष्पन्नज्ञानवाचकसंख्याशब्दात्संबन्धिबोधकशैषिकाणा "सांख्य"शब्दः सिद्धः । यद्वा "संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीत्तिताः" इति भारतात, संख्याशब्दावेदार्थकाणा निष्पन्नः “सांख्य" शब्दः । उभयथाऽपि योगरूढः । मु. । टी.। ७.-स्तीत्यर्थे म-म.। ८. -णविशेषणप्रसरणं मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536