Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 507
________________ परिशिष्टम् । ४८१ एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितत्त्वरूपं प्रधानं निवेदितम् । प्रकृतिर्महानहंकारश्चेति त्रयम्, पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनस्त्वेकम्, पञ्च तन्मात्राणि, पञ्चभूतानि, चेति चतुर्विंशतिस्तत्त्वानि रूपं यस्येति, एवंविधा प्रकृतिः कथितेत्यर्थः । पञ्चविंशतितमं तत्त्वमाह-अन्यस्त्विति । अन्योऽकर्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मत्वात । यदुक्तं-प्रकृतिः करोति प्रकृतिबध्यते प्रकृतिर्मुच्यते, न तु पुरुषः, पुरुषोऽबद्धः पुरुषो मुक्तः । पुरुषस्तु "अमूर्तश्चेतनो मोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्मः आस्मा कापिलदर्शने ॥" पुरुषगुणानाह-विगुण इति । सत्त्वरजस्तमोरूपगुणत्रयविकलः । तथा भोक्ता भोगी, एवंप्रकारः पुमान् तत्त्वं पञ्चविंशतितमं तत्त्वमित्यर्थः। तथा नित्यचिदभ्युपेतः, नित्या चासौ चिच्चैतन्यशक्तिस्तयाभ्युपेतः सहितः। आत्मा हि स्वं बुद्ध रव्यतिरिक्तमभिमन्यते । सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचर्यते । आह च पातञ्जले, “शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदारमाऽपि तदात्मक इव प्रतिमासते" [योगभा० ] इति मुख्यतस्तु चिच्छक्तिविषयपरिच्छेदशून्या, बुद्धरेव विषयपरिच्छेदस्वभावत्वात् चिच्छक्तिसंविधानाच्चाचेतनापि बद्धिश्चेतनावतीवावभासते । वादमहार्णवोऽप्याह "बुद्धिदर्पणसंक्रान्तमर्थविप्रतिबिम्बकम् । द्वितीयदर्पणकल्पे पुरुषे यधिरोहति ॥" तदेव भोक्तृत्वमस्य न तु 'विकारोत्पत्तिरिति । तथा चासुरिः "विविक्ते दृक्परिणती बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्मसि ॥" विन्ध्यवासी त्वेवं भोगमाचष्टे "पुरुषोऽविकृतात्मैव स्वनि समचेतनम् मनः करोति सांनिध्यादुपाधेः स्फटिकं यथा ॥" [ ] इति नित्यचिज्ज्ञानयुक्तः । बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्यगतयोजयपराजययोरिव तत्फलकोशलाभादिसंबन्धेन स्वामिन्युपचारवदत्राप्युपर्यन्त इत्यदोषः । तत्त्वोपसंहारमाह पञ्चविंशतितत्त्वानि सांख्यस्यैव भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥४२।। पूर्वार्धं निगदसिद्धम् । अत्र सांख्यमते प्रधाननरयोः प्रकृतिपुरुषयोवृत्तिर्वर्तनं पङ्ग्वन्धगोरिख पङ्गुश्वरणविकलः, अन्धश्च नेत्रविकलः । यथा पङ्ग्वन्धौ संयुक्तावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ। प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् । प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः । मोक्षं प्रमाणं चाह प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिक शाब्दम् ॥४३॥ १. प्रकृतेर्म-प. १, २ । २. मनश्चकम् प. १, २, भ. ।। ३. पातञ्जलिः भ. १ । ४. -र्थप्रतिबिम्बके प. ३। ५. पुंस्यध्यवरोहति प. १, २, म.१। ६.-कारापत्ति-प. १, २, म.१। ७. स्वच्छो मु., प. १, २, भ. २। ८.-त्मैवं म.१। ९. र एवम् भ. । १०. संख्ययैव प.१ । ११. संयुतावेव म. १, प.१,३।१२. -स्य बत्तदन्तरं ज्ञा-प.२। -स्यान्तरज्ञा-म. १,२,प. १ । १३. चात्र प्र- म.।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536