________________
परिशिष्टम् ।
४८१ एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितत्त्वरूपं प्रधानं निवेदितम् । प्रकृतिर्महानहंकारश्चेति त्रयम्, पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनस्त्वेकम्, पञ्च तन्मात्राणि, पञ्चभूतानि, चेति चतुर्विंशतिस्तत्त्वानि रूपं यस्येति, एवंविधा प्रकृतिः कथितेत्यर्थः । पञ्चविंशतितमं तत्त्वमाह-अन्यस्त्विति । अन्योऽकर्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मत्वात । यदुक्तं-प्रकृतिः करोति प्रकृतिबध्यते प्रकृतिर्मुच्यते, न तु पुरुषः, पुरुषोऽबद्धः पुरुषो मुक्तः । पुरुषस्तु
"अमूर्तश्चेतनो मोगी नित्यः सर्वगतोऽक्रियः ।
अकर्ता निर्गुणः सूक्ष्मः आस्मा कापिलदर्शने ॥" पुरुषगुणानाह-विगुण इति । सत्त्वरजस्तमोरूपगुणत्रयविकलः । तथा भोक्ता भोगी, एवंप्रकारः पुमान् तत्त्वं पञ्चविंशतितमं तत्त्वमित्यर्थः। तथा नित्यचिदभ्युपेतः, नित्या चासौ चिच्चैतन्यशक्तिस्तयाभ्युपेतः सहितः। आत्मा हि स्वं बुद्ध रव्यतिरिक्तमभिमन्यते । सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचर्यते । आह च पातञ्जले, “शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदारमाऽपि तदात्मक इव प्रतिमासते" [योगभा० ] इति मुख्यतस्तु चिच्छक्तिविषयपरिच्छेदशून्या, बुद्धरेव विषयपरिच्छेदस्वभावत्वात् चिच्छक्तिसंविधानाच्चाचेतनापि बद्धिश्चेतनावतीवावभासते । वादमहार्णवोऽप्याह
"बुद्धिदर्पणसंक्रान्तमर्थविप्रतिबिम्बकम् ।
द्वितीयदर्पणकल्पे पुरुषे यधिरोहति ॥" तदेव भोक्तृत्वमस्य न तु 'विकारोत्पत्तिरिति । तथा चासुरिः
"विविक्ते दृक्परिणती बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्मसि ॥" विन्ध्यवासी त्वेवं भोगमाचष्टे
"पुरुषोऽविकृतात्मैव स्वनि समचेतनम्
मनः करोति सांनिध्यादुपाधेः स्फटिकं यथा ॥" [ ] इति नित्यचिज्ज्ञानयुक्तः ।
बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्यगतयोजयपराजययोरिव तत्फलकोशलाभादिसंबन्धेन स्वामिन्युपचारवदत्राप्युपर्यन्त इत्यदोषः । तत्त्वोपसंहारमाह
पञ्चविंशतितत्त्वानि सांख्यस्यैव भवन्ति च ।
प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥४२।। पूर्वार्धं निगदसिद्धम् । अत्र सांख्यमते प्रधाननरयोः प्रकृतिपुरुषयोवृत्तिर्वर्तनं पङ्ग्वन्धगोरिख पङ्गुश्वरणविकलः, अन्धश्च नेत्रविकलः । यथा पङ्ग्वन्धौ संयुक्तावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ। प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् । प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः । मोक्षं प्रमाणं चाह
प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् ।
मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिक शाब्दम् ॥४३॥ १. प्रकृतेर्म-प. १, २ । २. मनश्चकम् प. १, २, भ. ।। ३. पातञ्जलिः भ. १ । ४. -र्थप्रतिबिम्बके प. ३। ५. पुंस्यध्यवरोहति प. १, २, म.१। ६.-कारापत्ति-प. १, २, म.१। ७. स्वच्छो मु., प. १, २, भ. २। ८.-त्मैवं म.१। ९. र एवम् भ. । १०. संख्ययैव प.१ । ११. संयुतावेव म. १, प.१,३।१२. -स्य बत्तदन्तरं ज्ञा-प.२। -स्यान्तरज्ञा-म. १,२,प. १ । १३. चात्र प्र- म.।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org