________________
४८२
षड्दर्शनसमुच्चये मोक्षः किमुच्यत इत्याह । पुरुषस्यात्मन आन्तरज्ञानात् त्रिविधबन्धविच्छेदात्प्रकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति । आन्तरज्ञानं च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात् त्रिविधः । तद्यथा, प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहंकारबुद्धीः पुरुषबुद्धयोपासते तेषां वैकारिकः । इष्टापूर्ते दाक्षिणः, इष्टापूर्त जनभोजनदानादिकं तस्मिन्, पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति ।।
"इष्टापूर्त मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽमिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूस्वा इमं लोकं हीनतरं वा विशन्ति ॥" [ ]
इति वचनात् । इति त्रिविधबन्धविच्छेदात्परमब्रह्मज्ञानानुभवस्ततः प्रकृतिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच्च निवृत्तायां प्रकृती, पुरुषस्य स्वरूपावस्थानं मोक्ष इति श्लोकपूर्वार्द्धार्थः । मानत्रितयं च प्रमाणत्रयं च, भवेत् स्यात, प्रत्यक्षं लैङ्गिक शब्दं च, चकारः सर्वत्र संबध्यते । प्रत्यक्षमिन्द्रियोपलभ्यम्, लैङ्गिकमनुमानगम्यम्, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् । अथोपसंहरन्नाह
एवं सांख्यमतस्यापि समासः कथितोऽधुना।
जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ।।४४।। एवं पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः। अपि समुच्चयार्थे न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति । सांख्य इति पुरुषनिमित्तेयं संज्ञा। संख्यस्य इमे सांख्याः । तालव्यो वा शकारः, शङ्खनामाऽऽदिपुरुषः ।
अथ क्रमायातं जैनमतोद्देशमाह-अधुनेत्युत्तरार्द्धन वा संबध्यते । अधुना इदानीं जैनदर्शनसंक्षेपः कथ्यते कथंभूत इति । सुविचारवान् । सुष्टु शोभनो विचारोऽर्थोऽस्यास्तीति मत्त्वर्थीये मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि।
"पुराणं मानवो धर्मः साङ्गो वेदश्चिकिस्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥" [ . ] इत्याधुक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह--
"अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते ।
निर्दोषं काञ्चनं चेत्स्यास्परोक्षाया बिभेति किम् ॥" [ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः । उक्तं च
___ "पक्षपातो न मे वीरे न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः" ॥ [ ] इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणं विशेषणं ज्ञेयमिति ।
१. वैकारिक-प. १, २, म.१। २. हीष्टकारी मु., म. २। ३.-संहारमाह भ.१।४. गदितो- म. १। ५. संखस्य प.१,, भ.१। ६. अप्रामाणिकोऽयं कल्पः। प्रथमकल्पस्तु कथमपि संगमनीयः । वस्तुतस्तु, "शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते" इति व्यासस्मृत्या भावार्थकाङ्प्रत्ययनिष्पन्नज्ञानवाचकसंख्याशब्दात्संबन्धिबोधकशैषिकाणा "सांख्य"शब्दः सिद्धः । यद्वा "संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीत्तिताः" इति भारतात, संख्याशब्दावेदार्थकाणा निष्पन्नः “सांख्य" शब्दः । उभयथाऽपि योगरूढः । मु. । टी.। ७.-स्तीत्यर्थे म-म.। ८. -णविशेषणप्रसरणं मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org