________________
परिशिष्टम् ।
४८३
तदेवाह
जिनेन्द्रो देवता तत्र रागद्वेषविवजितः । हतमोहमहामल्ल: केवलज्ञानदर्शनः ॥४५॥ सुरासुरेन्द्रसंपूज्यः सद्भूतार्थोपदेशकः।
कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ।।४६॥ तन्न तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं समाप्त इति संबन्धः । जिनेन्द्र इति जयन्ति रागादीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशासदृशचतुस्त्रिशदतिशय संपत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुषः, एष कीदक सन् शिवं संप्राप्त इति परासाधारणानि विशेषणान्याहरागद्वेषविवर्जित इति रागः सांसारिकस्नेहोऽनुग्रहलक्षणः, द्वेषो वैराग्याद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवजितो रहितः । एतावेव दुर्जयो दुरन्तभवसंपातहेतुकतया च मुक्तिप्रतिरोधको समये प्रसिद्धी । यदाह
"को दुक्खं पाविजा कस्स न सुक्खेहि विम्हहो हुज्जा ।
को य न लभेज मुक्खं रागदोसा नइ न हुज्जा ॥" [ ] इति । - तथा हतमोहमहामहः मोहनीयकर्मोदयात् हिंसात्मकशास्त्रेभ्योऽपि मुक्तिकाङ्क्षणादिव्यामोहो मोहः स एव दुर्जेयत्वान्महामल्ल इव महामल्लः, हतो मोहमहामल्लो येनेति स तथा । रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्तयङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम्
"रागोऽजनासङ्गमनानुमेयो द्वेषो द्विषाद् दारणहेतिगम्यः ।
मोहः कवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमहंन ॥" इति रागद्वेषमोहरहितो भगवान् । तथा केवलज्ञानदर्शनः । धवखदिरपलाशादिव्यक्तिविशेषावबोधो ज्ञानम् । वनमिति सामान्यावबोधो दर्शनम् । केवलशब्दश्चोभयत्र संबध्यते । केवलमिन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनं च यस्येति । केवलज्ञानकेवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद्रव्यपर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम् । छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानं, केवलिनस्त्वादौ ज्ञानं ततो दर्शनमिति । तथा सुरासुरेन्द्रसंपूज्यः। सेवावधानसावधान निरन्तरढोकमानदासायमानदेवदानवनायकवन्दनीयः। तादशैरपि पूज्यस्य मानवतिर्यकखेचरकिंनरनिकरसंसेव्यत्वमानुषङ्गिकमिति । तथा सद्भतार्थोपदेशकः । सद्भतार्थान द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदभिलाप्यानभिलाप्याद्यनन्तधर्मात्मकान पदार्थानुपदिशति यः स इति ।
उत्पादव्ययध्रौव्यात्मकं च सदिति अभिमन्यमानो जैनः एकान्तनित्यपक्षमेकान्तानित्यपक्षं चेत्थं विघटयति । तथा हि-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम् । तच्च नित्यैकान्ते न घटते । अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः, स च क्रमेणार्थक्रियां कुर्वीताक्रमेण वा । अन्योन्यव्यतिरिक्तधर्माणामर्थानां प्रकारान्तरेणोत्पादाभावात् । तत्र न क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात्, कालक्षेपिणो "वासामर्थ्यप्राप्तेः । समर्थोऽपि हि तत्तत्सहकारिसमवधाने तं तमथं करोतीति चेद्, न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् 'सापेक्षमसमर्थम्' [ 1 इति न्यायात् । न तेन सहकारिणोऽपेक्ष्यन्ते, अपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तानपेक्षत इति चेत तत्कि स भावोऽसमर्थः समर्थो वा। समर्थश्चेतिक सहकारिमुखप्रेक्षणदीनानि, तान्यपेक्षते न पुनर्झटिति घटयति । ननु समर्थमपि बीजमिलाजलानिलादि
१.-र्थप्रका-प.२।२.-म्पन्महि-भ. १,प..,२। ३.-क् शिवं मु., म. २ । ४.-याच्च मु., प. १, २, भ. २ । ५. दुर्जय-प.१। ६. मोहो महा-मु., म. २। ७. द्विषां दा -मु., म.२। ८. देवः स स चैव-प. १, २, म. ५। ९. अन्यस्य मु., म.२। १०. सेवाविधान-मु., प. १,२, भ. २। ११. नवव-म., म.२। १२. करसरसरसे-प. १, म.। १३. वा सामाप्राप्तेः मु., भ. २ । १४. सहकारिप्रेक्षणादीनि म. । १५. -लाजलादि-प. १, २, भ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org