________________
भावः स
४८४
षड्दर्शनसमुच्चये सहकारिसहितमेवाकुरं करोति नान्यथा, तत्कि बीजस्य सहकारिभिः किंचिदुपक्रियते, न वा । यदि नोपक्रियते तदा सहकारिसंनिधानात्प्रागिव कि न सोऽर्थक्रियायामुदास्ते, उपक्रियते चेत, सतहि तैरुपकारो भिन्नोऽभिन्नो वा क्रियते इति वाच्यम् । अभेदे, स एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः । भेदे सति कथं तस्योपकारः किं न सह्यविन्ध्यादेरपि । तत्संबन्धात्तस्यायमिति चेत्, उपकार्योपकारकयोः कः संबन्धः । न तावत्संयोगः, द्रव्ययोरेव तस्य भावात् । अत्र तूपकार्य द्रव्यमुपकारश्च क्रियेति न संयोगः । नापि समवायः, तस्यैकत्वाद्व्यापकत्वाच्च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतैः संबन्धिभिः संबन्धो युक्तः । नियतसंबन्धिसंबन्धे चाङ्गी क्रियमाणे 'तत्कृतोपकारोऽस्य समवायस्याभ्युपगन्तव्यः, तथा च सत्युपकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् भेदे पुनरपि समवायस्य न नियतसंबन्धे संबन्धत्वम् । तन्नकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । नाप्यक्रमेण; न ह्येको
लकालकलाभाविनीयुगपत्सर्वाः क्रियाः करोतीति प्रातीतिकम, कुरुतां वा तथापि स द्वितीयक्षणे कि कुर्यात् । करणे वा क्रमपक्षभावी दोषः । अकरणे त्वर्थक्रियाकारित्वाभावादवस्तुत्वप्रसंग इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलाद व्यापकनिवृत्ती निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति । अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयतीति नैकान्तनित्यपक्षो युक्तिक्षमः ।
एकान्तानित्यपक्षोऽपि न कक्षीकरणार्हः । अनित्यो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमर्थो देशकृतस्य कालकृतस्य चक्रमस्यैवाभावात् । क्रमो हि पौर्वापर्यम् तच्च क्षणिकस्यासम्भवि अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्चाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहः
“यो तत्रैव स तत्रैव यो यदैव तदैव सः ।
न देशकालयोाप्तिर्भावानामिह विद्यते ॥" न च संतानापेक्षया पूर्वोत्तरक्षणानां क्रमः संभवति । संतानस्यावस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वम्; न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाक्षणिकस्वम्; तहि समाप्तः क्षणभङ्गवादः । नाप्यक्रमेणार्थक्रिया क्षणिके संभवति; स ह्यको बीजपुरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन्केन स्वभावेन जनयेत, नानास्वभावैर्वा । यद्यकेन; तदा तेषां रसादिक्षणानामेकत्वं स्यादेकस्वभावजन्यत्वात् । अथ नानास्वभावैर्जनयति किंचिद्रपादिकमुपादानभावेन किंचिद्रसादिकं सहकारित्वेनेति; ते तहि स्वभावास्तस्यात्मभूताः, अनात्मभूता वा। अनात्मभूताश्चेत्; स्वभावत्वहानिः । यद्यात्मभूताः; तर्हि तस्यानेकत्वमनेकस्वभावत्वात् तेषाम्, स्वभावानां वैकत्वं प्रसज्येत । तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वात् । अथ य एवेकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तहि नित्यस्यैकरूपस्य क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसांकयं च कथमिष्यते, क्षणिकवादिना। अथ नित्यमेकस्वरूपत्यादक्रमम, अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्तिरिति चेत्; अहो स्वपक्षपक्षपाती देवानांप्रियः । यः खलु स्वयमेकस्मान्निरंशाद्रूपादिक्षणलक्षणात्कारणात्, युगपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्मात्क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादपि क्रमाक्रमयोनिवृत्त्यैव व्याप्यार्थक्रिया व्यावर्तते । तद्वयावृत्तौ च सत्त्वमपि व्यापकानुपलम्भबलेनैव निवर्तत इत्येकान्तानित्यवादोऽपि न रमणीयः । स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासायोगादसन् स्याद्वाद इति वाच्यम् । नित्यपक्षानित्यपक्षविलक्षणस्य कथंचित्सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् तथैव च सर्वेरनुभवादिति । तथा च पठन्ति
१. तस्य प. १,२, म..। २. क्रियेत इति प. १,२। ३. कालभा-म.। -कालकलापभा-प. २ । ४. वाक्रम-प.१, २, भ. १। ५. -सस्याभा-प.५। ६. तत्क्ष- मु., म.२। ७. चैतस्मिन् विमु., म. २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org