Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 499
________________ परिशिष्टम् । ४७३ अवयवाः पञ्चेति संबन्धः । पूर्वार्द्धमाह-प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति पञ्चावयवाः । तत्र प्रतिज्ञा पक्षः, कृशानुमानयं सानुमानित्यादि । हेतुर्लिङ्गवचनम्, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणवचनम्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि । उपनयो हे तोरुपसंहारकं वचनम्, धूमवांश्चायमित्यादि । निगमनं हेतुपदेशेन पुनः साध्यधर्मोपसंहरणं तस्माद्वह्निमानित्यादि । इति पञ्चावयवस्वरूपनिरूपणम्, इति अवयवतत्त्वं ज्ञेयमिति । तर्कः संशयोपरमो भवेत् । यथा काकेत्यादि । दूरादग्गोचरे स्पष्टप्रतिभासाभावात किमयं स्थाणुर्वा पुरुषो वेति संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्त्वं स्यात् । कथमित्याहयथेति । दूरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति । काकादिसंपातादिशब्दाद्वल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः । वायसप्रभृतिसंबन्धादत्र स्थाणुनी मान्यं कोलकेन भवितव्यम् । पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः। एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति । ऊर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यामूर्ध्वमुत्तरं यः प्रत्यय; स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तत्वविशेषो ज्ञेयः । यत्तदावर्थसंबन्धादनुक्तावपि ज्ञेयौ ॥२८॥ 'वादतत्त्वमाह आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । यः कथाभ्यासहेतुः स्यादसो वाद उदाहृतः ॥२९॥ असौ वाद उदाहृतः कथितस्तज्जरित्यर्थः। यः कः । इत्याह-कथाभ्यासहेतुः। कथा प्रामाणिकी तस्या अभ्यासहेतुः कारणम् । कयोः आचार्यशिष्ययोः। आचार्यों गुरुरध्यापकः, शिष्यश्चाध्येता 'विज्ञेय इति । कस्मात् । पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादि "परिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञादि 'प्रतिपन्थिकोपन्यासप्रौढिः तयोः परिग्रहात्संग्रहादित्यर्थः । आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे । शिष्यश्चोत्तरपक्षमररीकृत्य पूर्वपक्षं खण्डयति । एवं निग्राहकजयपराजयच्छलजात्यादि निरपेक्षतया अभ्यासनिमित्तम् । पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यो गोष्ठी कुरुतः स वादो ज्ञेयः ॥२९॥ अथ तद्विशेषमाह विजिगोषुकथायां" तु च्छलजात्यादिदूषणम् ।। स जल्पः सा वितण्डा तु या प्रतिपक्षविजिता ॥३०॥ स जल्प इति संबन्धः । यत् तु विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठयां सत्यां छलजात्यादिदूषणम् । छलं त्रिप्रकारम्-वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति, जातयश्चतुविशतिभेदाः, आदिशब्दान्निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तपक्षादेर्दूषणजालमुत्पाद्य निराकरणम् । अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैः परप्रयोगस्य दूषणोत्पादनम् । तथा चोक्तम् १. प्रतिज्ञा हेतुर्दृष्टान्त उपनयो म. १, प. १ । २. -यं पर्वत इत्यादि प. २. । ३. -त्वादिति प...। ४.-स इत्यादि प. १, २, म. १ । ५. -णम् अव-मु.प. १, भ. १,२। ६. –णुना कीलकेन भाव्यं पुरु- म. २ । ७. -दिभिया का-म. १। ८. -ध्वंमनन्तरं यः प. १, २, म.२। ९.-तज्ज्ञ रिति यः किमित्याह प. १,२, म. २। १०. -सः का-मु.। -सका-प. १। -से का-भ. २ । ११. विज्ञेय मु., म. १,३।१२.-दिसंग्रहः प. १,२। १३. पञ्चको-मु., प. १, २, भ, १ । १४. क्षमङ्गीकृत्य प.२। १५. -धनपेक्षितया म. २ । १६. -क्षसंग्रहेण म. ३ । १७. -या तु मु., म. १, २ । १८. यत् वि-मु., प. १, २, भ. १ । १९. -पनमेव स-म.२ । ६० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536