Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 498
________________ ૪૭૨ षड्दर्शनसमुच्चये उपमानं व्यावर्ण्य शब्दप्रमाणमाह शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥२४॥ तु पुनराप्तोपदेशः शाब्दम् । अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः । । ___ अथ प्रमेयलक्षणमाह-'प्रमेयं स्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति' प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः । तच्च नैयायिक - सूत्र आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदु:खापवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मेरात्मा प्रमीयते । एवं देहादयोऽपि प्रमेयता ज्ञेयाः । अत्र तु ग्रन्थं विस्तारभयान्न प्रपञ्चिता इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्चेति ॥२४॥ संशयादिस्वरूपमाह किमेतदिति संदिग्धः प्रत्ययः संशयो मतः। प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥२५॥ दूरावलोकनेन पदार्थपरिच्छेदक धर्मेषु संशयानः प्राह-किमेतदिति । एतत्कि स्थाणुर्वा पुरुषो वेति यः संदिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः संमतः तच्छासन इति । प्रयोजनमाह-तत्तु तत्पुनः प्रयोजनं नाम तत्त्वं यत्किमित्याह-अर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते । प्रतीत्यध्याहार्यम् । न हि निष्फलकार्यारम्भ इत्यथित्वादुक्तम् । एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ॥२५॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥ - व्याख्या-तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् । यत्किमिति । विवादविषयो ''नयः यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति । इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः। तावच्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न "स्पष्टं दृष्टान्तोपष्टम्भः । उक्तं च "तावदेव चलत्यर्थो" मन्तुर्गोचरमागतः । यावनोत्तम्मनेनैव दृष्टान्नावलम्ब्यते ॥" एष दृष्टान्तो ज्ञेयः । सिद्धान्तः पुनश्चतुर्मेदो भवेत् । कथमित्याह-पर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः । आदिशब्दाद्भेदत्रयमिदं ज्ञेयम् । यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । अमी चत्वारः सिद्धान्तभेदाः । नाममात्रकथनमिदम्, विस्तरप्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥२६॥ अवयवादितत्त्वत्रयस्वरूपमाह प्रतिज्ञाहेतुदृष्टान्तोपनया 'निगमस्तथा। अवयवाः पञ्च तकः संशयोपरमो भवेत् ॥२७॥ यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ १. चात्म-7.१,२,मु.। २.-म् आप्त इति अ-प...., म.१। ३. प्रत्ययिता ज-.२।४.-देशो देशनावा-प. १, २, म. १ । ५. -श्चेत्यादि द्व-म.., प.१,२। ६. -त्रं तच्च आ-. १,.,म.१। ७. -स्तरभ-प. १, २, भ, १।८.-त इ-म.। ९, -त्वादिति भ. १।१०.-कविज्ञेयध-प.१,भ. १। ११. -यः सं-प. १,२ । १२. न यस्मि-प.., भ.१,२ । १३. स्पष्टदृष्टान्तावष्टम्भः म.१।१४. मन्तुविषयमा-प. १, २, भ.१। १५. विशेषार्थो ज्ञेयः म. १, प. १ । १६. गमनं तथा प. १, भ. ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536