Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 496
________________ ४७० षड्दर्शनसमुच्चये व्यवसायात्मकं ज्ञानं व्यपदेशविवजितम् । प्रत्यक्षमितरन्मानं तत्पूर्व त्रिविधं भवेत् ॥१८॥ पत्र प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृगिति संबन्धः । विशेषणान्याह-इन्द्रियार्थसंनिकर्षोत्पश्चमिति । इन्द्रियं चार्थश्चेति द्वन्द्वः, लयोः संनिकर्षात्संयोगादुत्पन्नं जातम् । इन्द्रियं हि नैकट्यात् पदार्थे ' संयुज्यते । इन्द्रियार्थसंयोगाज् ज्ञानमुत्पद्यते । यदुक्तम् "भामा सहेति मनसा मन इन्द्रियेण, . स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥" [ तत्राग्यभिचारिक ज्ञानान्तरेण नान्यथाभावि । शक्तिशकले कलधौतबोधो हीन्द्रियार्थसंनिकर्षोंत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् । तथा व्यवसायात्मकं व्यवहारसाधकम् । सजलधरणितले हि बहलशाद्वलवृक्षावल्यामिन्द्रियार्थसानिध्योद्गतमपि जलज्ञानं तत्प्रदेशसंगमेऽपि स्नानपानां दिव्यवहारासाधकत्वादप्रमाणम् । अतः सफलं व्यवसायात्मकमिति विशेषणम् । तथा व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितम् । तथाहि-आजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्व धवलशङ्के पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्थसंनिकर्षोत्पन्नमस्ति तथाप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् । साम्प्रतमनुमानमाह । इतरदन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्व प्रथमं त्रिविधं त्रिप्रकारक भवेज्जायेत पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह । तत्पूर्व प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ॥१७-१८॥ अनुमानत्रविध्यमाह पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा। तत्राद्यं कारणात्कार्यमनुमानमिह गोयते ॥१९॥ पूर्ववत् शेषवत् सामान्यतोदृष्टं चेत्यनुमानत्रयम् । चः समुच्चये । एवेति पूरणार्थे । तथेति उपदर्शने। तत्र त्रिषु मध्ये, भाद्यमनुमान मिह शास्त्रे कारणार कार्यमनुमानमुदितं कारणान्मघात् कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्य नामानुमानं कथितमित्यर्थः ॥१९॥ निदर्शनेन तमेवार्थ द्रढयन्नाह यथा रोलम्बगवलव्यालतमालमलिनत्विषः । , वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥ यथेति दृष्टान्तकथनारम्भे । रोलम्बाः भ्रमराः, गवळं माहिषं शृङ्गम्, व्याला गजाः, सर्पा वा, समाला वृक्षविशेषाः, सर्वेऽप्यमी "कृष्णाः पदार्थाः स्वभाक्तो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवंप्राया एवंविधाः पयोमुचो मेघा वृष्टिं न व्यभिचरन्तीति । एवंप्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादि. विशेषा ज्ञेयाः । यदुक्तम् १. -र्थेषु सं-प. २ । -र्थेन सं-भ. १, २ । २. -र्थयोहि सं-भ. १, २ । ३. -गाच्च ज्ञा-भ. १, २ । ४. शीघ्रः भ. १, ३। ५. तथाव्य-भ. १, २ । ६. -चारकम् प. २, म १ । ७. चारकम् प. २ । ८-नावमाहनादि भ. १,२।९. -ले श-प. १,२।१०.-मुक्त्वा सा- म. १, २ । ११.-ध्यमेवाह प.। १२. -मिहोदितम् भ. १,२। १३. -त्रितयम् भ. १,२। १४. र्यमुदितम् भ. १,२ । १५. -यं नामा-म. १,२ । १६. -ह रो-मु., प. १, २ । १७. सर्पो वा प. १ । १८. कृष्णप-प. १, म. १, २ । १९. -लतादि-प. १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536