Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 495
________________ परिशिष्टम् । नित्यश्चेत्; अधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत्; तस्याप्यन्येनोत्पादकान्तरेण भाव्यमनित्यत्वादेव तस्याप्यन्येनेति नित्यानित्यवादविकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः । तस्मान्नित्य एव भगवान् । अन्यच्च, एकोऽद्वितीयो बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृशमतिव्यापारतयैकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जसमा पद्येतेति भगवानेक एवेति युक्तियुक्तं नित्यैकेति विशेषणम् । तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता । सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोगयोग्यजगत्प्रसृमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सामग्री मीलनाक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा । सर्वज्ञश्च सन् सकलप्राणिनां संमीलितसमुचित कारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाणः स्वाजितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं च ददानः केषां नाभिमतः । तथा चोक्तम्"ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा । ७ "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥” [ ] इति । भूयोऽपि विशेषयन्नाह 'नित्यबुद्धिसमाश्रय' इति शाश्वतबुद्धिस्थानम् । क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्य कर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति । ईदृग्गुणविशिष्टः शिवो "नैयायिक मतेऽभ्यु १० पगन्तव्यः ।। १३ । अथ तत्त्वानि प्ररूपयन्नाह - ४६९ तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्क निर्णयो । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ।। १५ ।। जातयो निग्रहस्थानान्येषामेवं प्ररूपणा | २ अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥ १६ ॥ अमुत्रास्मिन् प्रस्तुते नैयायिकमते षोडश तत्वानि प्रमाणादीनि प्रमाणप्रभृतीनि । रुद्यथेति । बालावबोधाय नामान्यप्याह--प्रमाणप्रमेय - संशय प्रयोजन - दृष्टान्त - सिद्धान्त - अवयव तर्क निर्णय-वाद- जल्पवितण्डा - हेत्वाभास-छल जाति-निग्रहस्थानानां तत्त्वज्ञानान्निश्रेयससिद्धिरिति षोडश । एषामेवं प्ररूपणेति । अमुना प्रकारेण प्ररूपणा नाममात्र प्रकटनमित्यर्थः । तत्त्वानामेवम् १४ १३ 'अर्थकैकस्वरूपमाह । तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह - अर्थोपलब्धिहेतुः " प्रमाणं स्यात् । अर्थस्य पदार्थस्योपलब्धिज्ञानं तस्य हेतुः कारणं प्रमाणं 'स्याद् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहानस्य संख्यामुपदिशन्नाह तच्चतुर्विश्वमिति । तत्प्रमाणं चतुविधं ज्ञेयमिति ।। १४–१६ ॥ प्रत्यक्षमनुमानं "चोपमानं शाब्दिकं तथा । १७ १२ व्याख्या - प्रमाणनामानि निगदसिद्धान्येव केवलमुपमया सह इत्युपमानं प्रमाणम् । अथ प्रत्यक्षानु मानस्वरूपमाह - Jain Education International तत्रेन्द्रियार्थ संनिकर्षोत्पन्नमव्यभिचारिकम् || १७ ॥ २ । गन्योन्यसदृश - १६ गंद - मु., भ. १, २ । १. -ल्पपरिस-म १, २ । २. - गन्यान्यसदृश - प. १, २ । गन्योन्यासदृश - प म. १, २ । ३. -ज्ञताभावे प १ । ४. समीलित - प १५. कार्यं प ७. - था च त्वद्यथ्योक्त- म. १, २ । ८. अन्यो मु. प. १, २ । ९ - पेक्षतया प. २ । १०. -तेरिति प. १ । ११. ते देवोऽभ्यु - प. २ । १२. मेव प. १ । १३. - नाममु - प. १, २, मु. १४. कस्य स्व-भ. १, २ । १५. तुस्स्या - प २ । १६. स्यादिति मु. प. १, २ । १७. चतुर्भेदं प. २ । १८. च शाब्दं चोपमया सह प. २ । च शाब्दमुपमया सह प. १ । १९. इयं व्याख्या नास्ति मु. प. १, २ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536