Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 493
________________ परिशिष्टम् । ४६७ तत्त्वानि व्याख्यायाधुना प्रमाणमाह प्रमाणे द्वे च विज्ञेये यथा सौगतदर्शने। प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ।।९।। तथेति' प्रस्तुतानुसंधाने । सौगतदर्शने बौद्धमते । द्वे प्रमाणे विज्ञेये । च शब्दः पुनरर्थे । तदेवाहप्रत्यक्षमनुमानं च । अक्षमक्षं प्रति गतं प्रत्यक्षमैन्द्रियकमित्यर्थः । अनुमीयत इत्यनुमानं लैङ्गिकमित्यर्थः । यत: सम्यग्ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः। सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम् । प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ॥९॥ पृथक्पृथग्दर्शनापेक्षलक्षणसांकर्यभीरु कीदृक् प्रत्यक्षमत्र ग्राह्यमित्याशङ्कायामाह प्रत्यक्ष कल्पनापोढमभ्रान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ तत्र प्रमाणोभय्यां प्रत्यक्षं बुद्धयतां ज्ञायतां शिष्येणेति । किंभूतं कल्पनापोडं शब्दसंसर्गवती प्रतीतिः कल्पना, तयापोढं रहितं निर्विकल्पकमित्यर्थः । अन्यच्चानान्तं भ्रान्तिरहितं रगरगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तं च तद् घटपटादिबाह्यस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम् । तच्च बाह्यस्थूलार्थानां तत्तन्मतानुमानोपपत्तिभिनिराकरिष्यमाणत्वात् । नीलाकारपरमाणुस्वरूपस्यैव तात्त्विकत्वात् । ननु यदि बाह्यार्था न सन्ति, किंविषयस्तयं 'घटपटशकटादि बाह्यस्थूलप्रतिभास इति चेत्; निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो व्यवहाराभासो निविषयत्वादाकाशकेशवत्स्वप्नज्ञानवद्वति । यदुक्तम् "नान्योऽनुभाग्यो बुद्धयास्ति तस्या नानुभवोऽपरः । ग्राहग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥" ] इति । "बाह्यो न विद्यते हों यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमाभासे प्रवर्तते ॥"[ ] इति । *तदुक्तम्-निर्विकल्पकमभ्रान्तं च प्रत्यक्षम् । [ ] इति । अनुमानलक्षणमाह-तु पुनः त्रिरूपात पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपाल्लिङ्गतो धूमादेरुपलक्षणाद्यल्लिङ्गिनो वैश्वानरादेर्शानं तदनुमानसंज्ञितमनुमानप्रमाणमित्यर्थः । सूत्रे लक्षणं नान्वेषणीयमिति चरमपादस्य नवाक्षरत्वेऽपि न दोष इति ॥१०॥ रूपत्रयमेवाह रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोरेवं त्रीणि "विभाव्यन्ताम् ॥११॥ हेतोरनुमानस्य त्रीणि रूपाणि "विमान्यन्तामिति संबन्धः । तत्र पक्षधर्मत्वमिति । साध्यधर्मविशिष्टो धर्मी पक्षः । यथा 'पर्वतोऽयं वह्निमान् धूमवत्त्वात्' अत्र पर्वतः पक्षः, तत्र धर्मत्वम् । “धूमवत्त्वं वह्निमत्त्वेन व्याप्तं धूमोऽग्नि न व्यभिचरतीत्यर्थः । सपक्षे सत्त्वमिति यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः । १.-रः प्रत्य-म. १, २। २. -णोभये प. १। ३. -क्षणस्व- प. ५। ४. -लपदार्थानां मानतोप-प. २। ५. घटकटश-प. १, म.१,२। ६. -दिस्थूल-भ, १, २, प.१। ७. युक्तम.१। यदुक्त- म. । ८.-संज्ञकम- म. २। ९.-मपास्य म. १, प. १, २, मु.। १०.-भाव्यताम् म. १,२। ११०-भाव्यतामिति भ. १, २ । १२. वह्निमत्त्वं धूमवत्त्वेन म. १, २, प. १,२। १३. -तीति पक्ष इत्य-प. १, २, भ.१,२। १४. सत्त्वं यो मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536