________________
परिशिष्टम् ।
४६७
तत्त्वानि व्याख्यायाधुना प्रमाणमाह
प्रमाणे द्वे च विज्ञेये यथा सौगतदर्शने।
प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ।।९।। तथेति' प्रस्तुतानुसंधाने । सौगतदर्शने बौद्धमते । द्वे प्रमाणे विज्ञेये । च शब्दः पुनरर्थे । तदेवाहप्रत्यक्षमनुमानं च । अक्षमक्षं प्रति गतं प्रत्यक्षमैन्द्रियकमित्यर्थः । अनुमीयत इत्यनुमानं लैङ्गिकमित्यर्थः । यत: सम्यग्ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः। सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम् । प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ॥९॥ पृथक्पृथग्दर्शनापेक्षलक्षणसांकर्यभीरु कीदृक् प्रत्यक्षमत्र ग्राह्यमित्याशङ्कायामाह
प्रत्यक्ष कल्पनापोढमभ्रान्तं तत्र बुध्यताम् ।
त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ तत्र प्रमाणोभय्यां प्रत्यक्षं बुद्धयतां ज्ञायतां शिष्येणेति । किंभूतं कल्पनापोडं शब्दसंसर्गवती प्रतीतिः कल्पना, तयापोढं रहितं निर्विकल्पकमित्यर्थः । अन्यच्चानान्तं भ्रान्तिरहितं रगरगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तं च तद् घटपटादिबाह्यस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम् । तच्च बाह्यस्थूलार्थानां तत्तन्मतानुमानोपपत्तिभिनिराकरिष्यमाणत्वात् । नीलाकारपरमाणुस्वरूपस्यैव तात्त्विकत्वात् ।
ननु यदि बाह्यार्था न सन्ति, किंविषयस्तयं 'घटपटशकटादि बाह्यस्थूलप्रतिभास इति चेत्; निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो व्यवहाराभासो निविषयत्वादाकाशकेशवत्स्वप्नज्ञानवद्वति । यदुक्तम्
"नान्योऽनुभाग्यो बुद्धयास्ति तस्या नानुभवोऽपरः । ग्राहग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥"
] इति । "बाह्यो न विद्यते हों यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमाभासे प्रवर्तते ॥"[ ] इति ।
*तदुक्तम्-निर्विकल्पकमभ्रान्तं च प्रत्यक्षम् । [ ] इति । अनुमानलक्षणमाह-तु पुनः त्रिरूपात पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपाल्लिङ्गतो धूमादेरुपलक्षणाद्यल्लिङ्गिनो वैश्वानरादेर्शानं तदनुमानसंज्ञितमनुमानप्रमाणमित्यर्थः । सूत्रे लक्षणं नान्वेषणीयमिति चरमपादस्य नवाक्षरत्वेऽपि न दोष इति ॥१०॥ रूपत्रयमेवाह
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता।
विपक्षे नास्तिता हेतोरेवं त्रीणि "विभाव्यन्ताम् ॥११॥ हेतोरनुमानस्य त्रीणि रूपाणि "विमान्यन्तामिति संबन्धः । तत्र पक्षधर्मत्वमिति । साध्यधर्मविशिष्टो धर्मी पक्षः । यथा 'पर्वतोऽयं वह्निमान् धूमवत्त्वात्' अत्र पर्वतः पक्षः, तत्र धर्मत्वम् । “धूमवत्त्वं वह्निमत्त्वेन व्याप्तं धूमोऽग्नि न व्यभिचरतीत्यर्थः । सपक्षे सत्त्वमिति यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः ।
१.-रः प्रत्य-म. १, २। २. -णोभये प. १। ३. -क्षणस्व- प. ५। ४. -लपदार्थानां मानतोप-प. २। ५. घटकटश-प. १, म.१,२। ६. -दिस्थूल-भ, १, २, प.१। ७. युक्तम.१। यदुक्त- म. । ८.-संज्ञकम- म. २। ९.-मपास्य म. १, प. १, २, मु.। १०.-भाव्यताम् म. १,२। ११०-भाव्यतामिति भ. १, २ । १२. वह्निमत्त्वं धूमवत्त्वेन म. १, २, प. १,२। १३. -तीति पक्ष इत्य-प. १, २, भ.१,२। १४. सत्त्वं यो मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org