SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४६८ षड्दर्शनसमुच्चये अत्र धूमवत्त्वेन हेतुना सपक्षे महानसे [ विद्यमानता ] सत्त्वं वह्निमत्त्वमस्तीत्यर्थः। विपक्षे नास्तितेति यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये । जलाशये हि वह्निमत्त्वं व्यावर्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते इति एवं प्रकारेण हेतोः अनुमानस्य त्रीणि रूपाणि ज्ञायन्तामित्यर्थः ॥११॥ उपसंहरन्नाह बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः। नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२।। अयं संक्षेपो निवेदितः कथितः निष्ठां नीत इत्यर्थः । कस्य । बौद्धराद्धान्तवाच्यस्य बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्योऽभिधातव्योऽर्थस्तस्य । इतोऽनन्तरं नैयायिकमतस्य शैवशासनस्य कथ्यमानो निशम्यता संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ॥१२॥ तदेवाह आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥१३॥ आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः । स कथंभूतः । सृष्टिसंहारकृत् सृष्टिः प्राणिनामुत्पत्तिः, संहारस्तद्विनाशः, सृष्टिश्च संहारश्चेति द्वन्द्वः तौ करोतीति क्विपितोऽन्तः। तथा हि । अस्य प्रत्यक्षोपलक्ष्यमाणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः। केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमातृत्वमिति संहारकर्तापि कश्चिदभ्युपगन्तव्यः । यत्प्रमाणम्', सर्व धरणिधरणीधरतरुपुरप्राकारादिकं बुद्धिमत्पूर्वकम्, कार्यत्वात्, यद्यत् कार्य तत्तबुद्धिमत्पूर्वकं , यथा घटः, कार्य चेदम्, तस्माद् बुद्धिमत्पूर्वकमिति प्रयोगः । स च भगवानीश्वर एवेत्यर्थः । व्यतिरेके गगनम् । न चायमसिद्धो हेतुः, भूभूधरादीनां स्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगत्प्रसिद्धत्वात् । नापि विरुद्धानकान्तिकदोषौ; विपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टः; प्रत्यक्षानुमानोपमानागमाबाध्यमानधर्मधमित्वात् । नापि प्रकरणसमः; ' तत्परिपन्थिपदार्थस्वरूपसमर्थनः प्रथितप्रत्यनु मानोदयाभावात् । अथ निर्वृतात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्तेश्वर इति प्रत्यनुमानोदयात कथं प्रकरणसमदूषणाभाव इति चेत: उच्यते: अत्र साध्यमान ईश्वररूपो धर्मी प्रतीतः अप्रत मन्यते सुहृदा। अप्रतीतश्चेत्; भवत्परिकल्पितहेतोरेवाश्रयासिद्धि दोषप्रसङ्गः । प्रतीतश्चेत्; तर्हि येव प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाभ्युपगम्यत इति कथमशरीरत्वम् । अतो न दुष्टो हेतुरिति साधूक्तं सृष्टिसंहारकृच्छिवः । तथा विभुः सर्वव्यापकः । एकनियतस्थानवृत्तित्वे ह्यनियतप्रदेश निष्ठितानां पदार्थानां प्रतिनियतः यथावन्निर्माणानुपपत्तेः । न टेकस्थानस्थितः कुम्भकारोऽपि दूरदूरतरघटघटनायां व्याप्रियते । तस्माद्विभुभंगवान् । तथा निस्यैकः। नित्यश्चासावेकश्चेति । यतो नित्योऽत एव एकोप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम् । भगवतो ह्यनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षतया कृतकत्वप्राप्तिः । स्वोत्पत्तावपेक्षितपरव्यापारो हि भावः कृतक इष्यत इति । अथ चेत् कश्चिज्जगत्कर्तारमपरमभिदधाति; स एवानुयुज्यते । सोऽपि नित्योऽनित्यो वा। १. -ते एवं भ. १, २, प. १, मु.। २. -तोस्त्रीणि भ. १, २, प., मु. । ३. ज्ञायतामि-म. १,३। ४. नीतः कस्य । ५. शिवशा-मु.,प. १,२। ६. तदाह भ. १,२। ७. अक्षपा-भ.१,२। ८. तौ तः म. १,२। ९. तथाह भ. २। १०. -मातत्व-भ. १,२। ११. -णं धर-म. १,२। १२. कं दृष्टं य-प. २। १३. स भग-प. १, २, मु.। १४. एवेत्यन्वयः म. १,३। १५. तत्प्रतिप-म, १, २।१६. -प्रत्यक्षानुमानोद-प. २। १७. -द्धदो-प..। १८. -न वर्तित्वे प.२। १९.-श प्रतिष्ठानां १.२। -श प्रतिष्ठितानां म. १,३। २०. दूरतो घट-प. २।२१.-क्षय १.१। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy