Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 491
________________ परिशिष्टम् । ४६५ - तन्त्र तस्मिन् बौद्धमते सौगतशासने । 'तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभट्टारको दर्शनादिकरः किलेत्याप्तप्रवादे । तमेव विशिनष्टि । कथंभूतस्तत्त्वनिरूपकत्वेन । प्ररूपको दर्शकः कथयितेति यावत् । केषामित्याह-आर्यसत्यानाम् । आर्यसत्यनामधेयानां तत्त्वानाम् । कतिसंख्यानामिति चतुर्णां चतूरूपाणाम् । किंरूपाणामित्याह । दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानाम् । आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम्_ "सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥" [ एवंविधः सूगतो बौद्ध मते देवता ज्ञेय इत्यर्थः ॥४॥ आदिममेव तत्त्वं विवृण्वन्नाह ... दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ दुःखं किमुच्यत इत्याशङ्कायां संसारिणः स्कन्धाः । संसरन्तीति संसारिणो विस्तरणशीलाः स्कन्धाः प्रचयविशेषाः । संसारेऽमी चयापचयरूपा भवन्तीत्यर्थः। ते च स्कन्धाः पञ्च प्रकीर्तिताः पञ्चसंख्याः कथिताः । के त इत्याह । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव चेति । तत्र विज्ञानमिति-विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिकत्वज्ञानम् । यदुक्तम् “यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैव विधान्यथापि पर कृन्नैव क्रिया वा भवेद् द्वेधापि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति ॥" [ ] इति । विज्ञानम् । वेदनेति-वेद्यत इति वेदना पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। तथा च भिक्षुभिक्षामटश्चरणे कण्टके लग्ने प्राह "इत एकनवतेः कल्पे शक्तया में पुरुषो हतः। तेने कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥" [ ] इत्यादि । संज्ञेति-संज्ञानामकोऽर्थः । सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्र नाममात्रम् । नात्र कलत्रपुत्रमित्रभ्रात्रादिसंबन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम् । “तानोमानि मिक्षवः संज्ञामात्र व्यवहारमानं कल्पनामानं संवृति-मात्रमतोतोऽध्वानागतोऽध्वा सहेतुको विनाश आकाशं पुद्गलाः"[ ] इति । संस्कार इति-इह परभवविषयः संतानपदार्थनिरीक्षणप्रबुद्धपूर्वानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः, सैवेयं दीपकलिके साद्याकारेण ज्ञानोत्पत्तिः संस्कारः । यदाह "यस्मिन्नेव हि संतान आहिता कर्मवासना । फलं तत्रैव संधत्ते कार्पासे रक्तता यथा ॥" [ . ] इति रूपमिति-रगरगायमाणपरमाणुप्रचयः । बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तद्दर्शनोपपत्तिभिर्निराक्रियमाणत्वात् परमाणव एवं तात्त्विकाः । च पुनरर्थः । एवेति पूरणार्थः ॥५॥ दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्य अथ समुदयतत्त्वस्य स्वरूपमाह समुदेति यतो लोके रागादीनां गणोऽखिलः। आत्मात्मीयस्वभावाख्यः समुदयः स संमतः॥६॥ यतो यस्माल्कोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति । कीदृगित्याह । १. -ष्टि तत्त्वनिरूपकत्वेन कथंभूतो देवता प्ररू-प. १, २। २. तत्कर्मणो विपा-प. १, २। ३. पूर्वभवानुरूपसं. भ. १, २, मु.। ४-५. -र्थे- प. १,२। ६. -यभावा- प. १, २। ७. कीदृक्ष इ-प.१,२। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536