________________
परिशिष्टम् ।
४६५
- तन्त्र तस्मिन् बौद्धमते सौगतशासने । 'तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभट्टारको दर्शनादिकरः किलेत्याप्तप्रवादे । तमेव विशिनष्टि । कथंभूतस्तत्त्वनिरूपकत्वेन । प्ररूपको दर्शकः कथयितेति यावत् । केषामित्याह-आर्यसत्यानाम् । आर्यसत्यनामधेयानां तत्त्वानाम् । कतिसंख्यानामिति चतुर्णां चतूरूपाणाम् । किंरूपाणामित्याह । दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानाम् । आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम्_ "सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।
चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥" [ एवंविधः सूगतो बौद्ध मते देवता ज्ञेय इत्यर्थः ॥४॥ आदिममेव तत्त्वं विवृण्वन्नाह
... दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ दुःखं किमुच्यत इत्याशङ्कायां संसारिणः स्कन्धाः । संसरन्तीति संसारिणो विस्तरणशीलाः स्कन्धाः प्रचयविशेषाः । संसारेऽमी चयापचयरूपा भवन्तीत्यर्थः। ते च स्कन्धाः पञ्च प्रकीर्तिताः पञ्चसंख्याः कथिताः । के त इत्याह । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव चेति । तत्र विज्ञानमिति-विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिकत्वज्ञानम् । यदुक्तम्
“यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैव विधान्यथापि पर कृन्नैव क्रिया वा भवेद्
द्वेधापि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति ॥" [ ] इति । विज्ञानम् । वेदनेति-वेद्यत इति वेदना पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। तथा च भिक्षुभिक्षामटश्चरणे कण्टके लग्ने प्राह
"इत एकनवतेः कल्पे शक्तया में पुरुषो हतः।
तेने कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥" [ ] इत्यादि । संज्ञेति-संज्ञानामकोऽर्थः । सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्र नाममात्रम् । नात्र कलत्रपुत्रमित्रभ्रात्रादिसंबन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम् । “तानोमानि मिक्षवः संज्ञामात्र व्यवहारमानं कल्पनामानं संवृति-मात्रमतोतोऽध्वानागतोऽध्वा सहेतुको विनाश आकाशं पुद्गलाः"[ ] इति । संस्कार इति-इह परभवविषयः संतानपदार्थनिरीक्षणप्रबुद्धपूर्वानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः, सैवेयं दीपकलिके साद्याकारेण ज्ञानोत्पत्तिः संस्कारः । यदाह
"यस्मिन्नेव हि संतान आहिता कर्मवासना ।
फलं तत्रैव संधत्ते कार्पासे रक्तता यथा ॥" [ . ] इति रूपमिति-रगरगायमाणपरमाणुप्रचयः । बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तद्दर्शनोपपत्तिभिर्निराक्रियमाणत्वात् परमाणव एवं तात्त्विकाः । च पुनरर्थः । एवेति पूरणार्थः ॥५॥ दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्य अथ समुदयतत्त्वस्य स्वरूपमाह
समुदेति यतो लोके रागादीनां गणोऽखिलः।
आत्मात्मीयस्वभावाख्यः समुदयः स संमतः॥६॥ यतो यस्माल्कोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति । कीदृगित्याह । १. -ष्टि तत्त्वनिरूपकत्वेन कथंभूतो देवता प्ररू-प. १, २। २. तत्कर्मणो विपा-प. १, २। ३. पूर्वभवानुरूपसं. भ. १, २, मु.। ४-५. -र्थे- प. १,२। ६. -यभावा- प. १, २। ७. कीदृक्ष इ-प.१,२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org