Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 489
________________ परिशिष्ट १ श्रीसोमतिलककृता सधुवृत्तिः सज्ज्ञानदर्पणतले विमलेऽत्र यस्य ये केचिदर्थनिवहाः प्रकटीबभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्मप्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥२॥ जैनं यदेकमपि बोधविधायि वाक्यमेवं श्रुतिः फलवती भुवि येन चक्रे ।। चारित्रमाप्य वचनेन महत्तरायाः श्रीमान् स नन्दतु चिरं हरिभद्रसूरिः ॥२॥ संनिधेहि तथा वाणि षड्दर्शनाङ्कषड्भुजे । तथा षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥३॥ व्यासं विहाय संक्षेपरुचिसत्त्वानुकम्पया । टीका विधीयते स्पष्टा षड्दर्शनसमुच्चये ॥४॥ इह हि श्रीजिनशासनप्रभावनाविभावकप्रभोदयभूरियशाश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् 'श्रीहरिभद्रसूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थ स्वपरश्रेयोऽथं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह सद्दर्शनं जिनं नत्वा वीरं स्याहाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ 'अर्थो निगद्यतेऽभिधीयत इति संबन्धः । अर्थशब्दोऽत्र अभिधेयवाचको ग्राह्यः । "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" [ ] इत्यनेकार्थवचनात् । 'मया' इत्यनुक्त स्थापि गतार्थत्वात । किविशिष्टोऽर्थः । सर्वदर्शनवाच्य इति । सर्वाणि च तानि दर्शनानि बोलनेयायिकर्जन. वैशेषिकसांस्यजैमिनीयादीनि समस्तमतानि वक्ष्यमाणानि तेषु वाच्यः कथनीयः। किं कृत्वा । जिन स्वा। सामान्यमुक्त्वा विशेषमाह । कं जिनम् । वीरं वर्तमानस्वामिनम् । वीरमिति साभिप्रायम् । प्रमाणवतव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वात् । भगवतश्च दुःखसंपादिविषमोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् । तथा चोक्तम् "विदारणाकर्मततेविराजनात्तपाश्रिया विक्रमतस्तथाद्भुतात् । । मवाप्रमोदः किक नाकनायकइचकार ते वीर इति स्फुटामिधाम् ॥"[ ] इति। युक्तियुक्त ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः । यद्वा आसन्नोपकारित्वेन युक्ततरमेव श्रीवर्टमानतीर्थकृतो नमस्करणम् । तमेव विशिनष्टि । किंभूतम् । सद्दर्शनं सत् शोभनं दर्शनं शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरुभयोरपि मुक्तयङ्गत्वात् किमर्थ सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम् । न,° दर्शनस्यैव प्राधान्यात् । यत्सूत्रम् "महेण परित्ता' दसणमिह दिढयरं गहेयम्वं । सिझंति चरणरहिया दंसणरहिया न सिजनति" इति तद्विशेषणमेव युक्तम् । पुनः " किंभूतम् । स्याद्वाददेशकम् । स्यात् विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भविकेभ्य उपदिशति यस्तम् । अत्रादिमाढे १. इह हि श्री-म. । २. नाविर्भाव-प.१,२१३. निर्विघ्नं प.१,३।४.ह तथाहि प...। ५. व्याख्या अ-प. १, २। ६.-कसांख्यजैनवै-प.., । ७. नाकिना-मु., म. २। ८. अन्थप्रारम्भे म. २ । ९. शोभमानं मु., म.., 11 ननु प. २। ११. सुट्ठ-अरं दंसणं च गहियव्वं प. २ । १२. -नः कथम्भू-प. ३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536