________________
परिशिष्ट १ श्रीसोमतिलककृता सधुवृत्तिः
सज्ज्ञानदर्पणतले विमलेऽत्र यस्य ये केचिदर्थनिवहाः प्रकटीबभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्मप्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥२॥ जैनं यदेकमपि बोधविधायि वाक्यमेवं श्रुतिः फलवती भुवि येन चक्रे ।। चारित्रमाप्य वचनेन महत्तरायाः श्रीमान् स नन्दतु चिरं हरिभद्रसूरिः ॥२॥ संनिधेहि तथा वाणि षड्दर्शनाङ्कषड्भुजे । तथा षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥३॥
व्यासं विहाय संक्षेपरुचिसत्त्वानुकम्पया । टीका विधीयते स्पष्टा षड्दर्शनसमुच्चये ॥४॥
इह हि श्रीजिनशासनप्रभावनाविभावकप्रभोदयभूरियशाश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् 'श्रीहरिभद्रसूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थ स्वपरश्रेयोऽथं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह
सद्दर्शनं जिनं नत्वा वीरं स्याहाददेशकम् ।
सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ 'अर्थो निगद्यतेऽभिधीयत इति संबन्धः । अर्थशब्दोऽत्र अभिधेयवाचको ग्राह्यः । "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" [
] इत्यनेकार्थवचनात् । 'मया' इत्यनुक्त स्थापि गतार्थत्वात । किविशिष्टोऽर्थः । सर्वदर्शनवाच्य इति । सर्वाणि च तानि दर्शनानि बोलनेयायिकर्जन. वैशेषिकसांस्यजैमिनीयादीनि समस्तमतानि वक्ष्यमाणानि तेषु वाच्यः कथनीयः। किं कृत्वा । जिन स्वा। सामान्यमुक्त्वा विशेषमाह । कं जिनम् । वीरं वर्तमानस्वामिनम् । वीरमिति साभिप्रायम् । प्रमाणवतव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वात् । भगवतश्च दुःखसंपादिविषमोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् । तथा चोक्तम्
"विदारणाकर्मततेविराजनात्तपाश्रिया विक्रमतस्तथाद्भुतात् । ।
मवाप्रमोदः किक नाकनायकइचकार ते वीर इति स्फुटामिधाम् ॥"[ ] इति। युक्तियुक्त ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः । यद्वा आसन्नोपकारित्वेन युक्ततरमेव श्रीवर्टमानतीर्थकृतो नमस्करणम् । तमेव विशिनष्टि । किंभूतम् । सद्दर्शनं सत् शोभनं दर्शनं शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरुभयोरपि मुक्तयङ्गत्वात् किमर्थ सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम् । न,° दर्शनस्यैव प्राधान्यात् । यत्सूत्रम्
"महेण परित्ता' दसणमिह दिढयरं गहेयम्वं ।
सिझंति चरणरहिया दंसणरहिया न सिजनति" इति तद्विशेषणमेव युक्तम् । पुनः " किंभूतम् । स्याद्वाददेशकम् । स्यात् विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भविकेभ्य उपदिशति यस्तम् । अत्रादिमाढे
१. इह हि श्री-म. । २. नाविर्भाव-प.१,२१३. निर्विघ्नं प.१,३।४.ह तथाहि प...। ५. व्याख्या अ-प. १, २। ६.-कसांख्यजैनवै-प.., । ७. नाकिना-मु., म. २। ८. अन्थप्रारम्भे म. २ । ९. शोभमानं मु., म.., 11 ननु प. २। ११. सुट्ठ-अरं दंसणं च गहियव्वं प. २ । १२. -नः कथम्भू-प. ३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org