Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 97
________________ सत्यशासन-परीक्षा [१८इति वचनादिति चेत्, तदेतत्सुतरां प्रत्यक्षबाधितम् ; सकलविशेषरहितस्य सर्वथा नित्यस्य निरवयवस्य व्यापकस्य सन्मात्रस्य परोपवर्णितस्वरूपस्य जातुचिदप्यननुभवात् । अक्षिविस्फालनानन्तरमपि प्रतिनियतदेशकालद्रष्टव्यत्वादिविशेषविशिष्टस्यैव सत्तादिसामान्यस्य साक्षात्करणात् ; अप्रतिनियतदेशस्य द्रष्टुरनन्यस्यादर्शनात् , अन्यथा प्रतीत्यपलापप्रसंगात् । दण्डकुण्डलाद्याकारकुण्डलिनोरिव सामान्यविशेषयोरन्योन्यपरिहारेणावस्थानानुपपत्तेः, अन्यतरस्याभावेऽन्यतरस्याप्यभावाच्च । तदुक्तम् "निर्विशेषं न सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वाच्च विशेष स्तद्वदेव हि ॥" [मी० श्लो० आकृति० श्लो० १० ] इति $ १८. ततो न प्रत्यक्षं परमब्रह्मसाधकं प्रत्युत तबाधकमेव स्यात् , विधिवत् परस्परव्यावृत्तेरप्यध्यक्षतः प्रतीतेः। १९. ननु न प्रत्यक्षमद्वैतबाधकं तस्य विधातृत्वेन निषेद्धृत्वाभावात् । “आहुर्विधात प्रत्यक्षं न निषेधृविपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रवाध्यते ॥" [ब्रह्मसिद्धिः ] इति वचनादिति चेत्, तदसंगतम् ; प्रतिनियतार्थविधिविषयस्य प्रत्यक्षस्यागमस्य वा निषेद्धृत्वोपपत्तेः, केवलविधिप्रतिपत्तेरेव अन्यप्रतिषेधप्रतिपत्तिरूपत्वात् , केवलभूतलपतिपत्तरेव घटाभावप्रतिपत्तिरूपत्वसिद्धेः । नह्ययं प्रतिपत्ता किंचिदुपलभमानः पररूपैः संकीर्णमुपलभते, यतः प्रमाणान्तरात्तत्यतिषेधः साध्यते । ततो विधात्रेव प्रत्यक्षमुपनिषद्वाक्यञ्चेति नियमस्यासंभवः, अन्यथा ततो विद्यावद विद्या विधानानुषंगात् । सोऽयमविद्याविवेकेन सन्मात्रं कुतश्चित् प्रतीयन्नेव' 'न निषेद्धप्रत्यक्षमन्यद्वा' इति ब्रुवाणः कथं स्वस्थः ? कथं वा 'प्रत्यक्षादेनिषेद्धृत्वाभावं प्रतीयात् ? यतस्तैप्रतिपत्तिः तस्यैवाऽभावविषयत्वसिद्धेः । प्रत्याक्षादेविधातृत्वप्रतिपत्तिरेव निषेद्धृत्वाभावप्रतिपत्तिरिति चेत् ; तर्हि सिद्धं भावाभावविषयत्वं तस्य । तथा च प्रत्यक्षेणाद्वैतैकान्तो बाध्यत एवेति कथं तत्तस्य साधकं स्यात् ? २०. नन्वनुमानं तत्साधकमस्ति--'विवादापन्नं सर्व प्रतिभासान्तः प्रविष्टम् , प्रतिभाससमानाधिकरणत्वात् , यत्प्रतिभाससमानाधिकरणं तत्प्रतिभासान्तःप्रविष्टम् ; यथाप्रतिभास - स्वरूपम् , प्रतिभाससमानाधिकरणं च सर्वम्' इति निर्दुष्टत्वाद्धेतोः प्रतिभासमात्ररूपपरमब्रह्मसिद्धिरिति चेत् ; तदेतत् स्ववधाय11 कृत्योत्थापनं ब्रह्मवादिनाम् , प्रतिभाससमानाधिकरणत्वाद्धेतोः सर्वस्य १. विधिविषयकत्वेन । २. परमपुरुषनिषेधः । ३. विधातृत्व । ४. प्रत्यक्षस्य । ५. अद्वैतस्य । ६. कृत्या-पिशाचिनीति । “कृत्याशब्देनाथर्वमन्त्रैः पावके होमविधानेन कृतेन पुरुषो यो निष्क्रामति सः कर्तुः शत्रु व्यापादयति यदि वा ,शत्रुर्बलवान् भवति जपहोमदानस्तदा सा येनोत्थापिता तमेव विनाशयति ।"-नीतिवा० सं०टी० पृ. १३५ । 1. -तत्वामविशे-क.। 2. विशेषास्त० ख०। 3. -क्षद्वैत क०, ख०। 4. -मस्ति न क० । 5. साध्येत ग०। 6. प्रतिपन्नेव ख०, ग०। 7. प्रत्यक्षाधे नि-क०। 8. -मासतः क०, ख० । 9. मासः स्व-क०, ख० । 10. निर्गुष्ठाहेतोः क०। निर्दुष्टाद्धेतोः ख०, ग०। 11. सवधायदाकृत्यो-क. -धायधाय-ख०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164