Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४६
सत्यशासन-परीक्षा
[१०"तादात्म्यमस्य कस्माच्चेत् स्वभावादिति गम्यताम् ।" ।
[ मी० श्लो० आकृति० श्लो० ४७ ] इत्यभिधानादिति चेत् , तेषां व्यक्तिवत्तस्यासाधारणसाधारण रूपत्वानुषंगात्। व्यक्त्युत्पादविनाशयोश्चास्यापि तद्योगित्वप्रसंगात् ।
$ १०. न सामान्यरूपता वा साधारणरूपत्वम् ; उत्पादविनाशयोगित्वं चास्य नाभ्युपगम्यते, तर्हि विरुद्धधर्माध्यासतो व्यक्तिभ्योऽस्य भेदः स्यात् । उक्तं च
"तादात्म्यं चेन्मतं जातेर्व्यक्तिजन्मन्यजातता। नाशोऽनाशश्च केनष्टस्तद्वञ्चानन्वयो न किम् ।। व्यक्तिजन्मन्यजाता चेदागतानाश्रयान्तरात् । प्रागासीन्न च तद्देशे सा तया संगता कथम् ॥ व्यक्तिनाशे न चेन्नष्टा गताव्यक्त्यन्तरं न च । तच्छन्येन स्थिता देशे सा जातिःक्केति कथ्यताम्।। व्यक्तर्जात्यादियोगेऽपि यदि जातेः से नेष्यते । तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ॥"
[हेतुबि० टी० पृ० ३२] इत्येवमनेकदोषदुष्टत्वात् याज्ञिकानुज्ञातसामान्यं खरविषाणवदसदेव स्यात् । ६११. यत्तु तत्सद्भावसाधनमुक्तं परैः -
"पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभास्यकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥”
[मी० श्लो० वन० श्लो० ४४] "न शाबलेयाद् गोबुद्धिस्ततोऽन्यालम्बनापि वा। तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ।।"
[ मी० श्लो० वन० श्लो० ४] इत्यादि; तत्सर्व सिद्धसाधनम् : अनुवृत्तप्रत्ययस्य सदृशपरिणामलक्षणसामान्यालम्बनत्वसिद्धेः ।
$ १२. न हि वयं बौद्धवत् सामान्यस्यापह्नवोतारः; केवलं परपरिकल्पितसर्वथानित्यस्वादिविशेषणविशिष्टमेव सामान्यं न मृष्यामहे । सर्वथा नित्यस्यैकस्यानष्टस्य सर्वगतस्य विचार्यमाणस्यासंभवात् ।
$ १३. 'नित्यं सदादि सामान्यं प्रत्यभिज्ञायमानत्वात् , शब्दवत्' इति चेत् , न; हेतो विरुद्धत्वात् । कथंचिन्नित्यस्य इष्टविरुद्धस्य साधनात् । सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात् । तदेवेदमितिपूर्वोत्तरपर्यायव्यापिनैकत्र प्रत्ययस्योपपत्तेः, पौर्वापर्यरहितस्य पूर्वापरप्रत्ययविषयत्वासंभवात् ।
१. जात्यादियोगः । २. नैयायिकादिपरिकल्पित । ३. कूटस्थनित्यस्य ।
1. -स्यासाधारणरूप-क० । 2. -द्वध्यासतो क०, ख० । 3. -तागता ख० । 4. चावत् क०। 5. -स्यानंस्तस्य क० । स्यानंशस्य ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164