Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
−९]
$ ५. तत्रापि -
मीमांसक-भाट्टप्राभाकरशासन परीक्षा
"मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ॥"
[ मी० श्लो० संबन्ध ० श्लो० ११० ] इति भाट्टाः । प्रत्यवायपरिहारकामेन नित्यनैमित्तिकानुष्ठानयोः प्रवर्तनात् । तयोरपि काम्यानुष्ठानकुक्षौ निक्षेपात् तत्करणमपि मोक्षकांक्षिणाऽनवधीयते इति प्राभाकराः प्रत्युचिरे ।
[ उत्तरपक्षः ]
$ ६. तदेतन्मीमांसकमतं तावद् दृष्टविरुद्धम्, मीमांसकाख्यैर्भाट्टैः प्राभाकरैश्च पृथिव्यादयोऽर्थाः सत्तादिसामान्यतोऽनुव्यज्यन्ते । तच्च सत्तादिसामान्यं सर्वथा नित्यं निरवयवमेकं व्यापकमिति तैरभिमतम् ; तत्तु प्रत्यक्षविरुद्धमेव सदृशपरिणामलक्षणस्य सामान्यस्यानित्यस्यासर्वगतस्य रूपादिवदने कव्यक्तात्मतयाऽनेकरूपस्यैव प्रत्यक्षतः प्रतीतेः । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकं प्रत्यक्षतः स्थूणादौ वंशादिवत् प्रतीयते; व्यक्तेरुत्पादविनाशेऽपि अनुत्पादमविनाशं वा यतस्तत्प्रत्यक्ष ं स्यात् । तदिदं परोदितस्वरूपं सामान्यं प्रत्यक्षबुद्धा वात्मानं न समर्थयति प्रत्यक्षतां च स्वीकर्तुमिच्छतीत्यमूल्यदानक्रयित्वात् सतामुपहासास्पदमेव स्यात् ।
$ ७. तथापि यदि याज्ञिका वैयात्यात् तथैवेति विवदन्ते, तर्हि तत्र ब्रूमः एकत्र व्यक्तौ सर्वात्मना वर्तमानस्य' अन्यत्र वृत्तिर्न स्यात् । तत्र हि वृत्तिः तद्देशे गमनात्, पिण्डेन सहोत्पादात्, तद्देशे सद्भावात् अंशवत्तया वा स्यात्, न तावद् गमनादन्यत्र पिण्डे तस्य वृत्तिः, निष्क्रियत्वोपगमात् । किं च पूर्वपिण्डपरित्यागेन तत्तत्र गच्छेत्, अपरित्यागेन वा, न तावत् परित्यागेन, प्राक्तनपिण्डस्य गोत्व परित्यक्तस्य अगोरूपताप्रसंगात्, नाप्यपरित्यागेन, अपरित्यक्तपिण्डस्यास्यानं - शरूपादेखि गमनासंभवात् । न ह्यपरित्यक्तपूर्वाधाराणां रूपादीनामाधारान्तरसंक्रान्तिर्दृष्टा । नापि पिण्डे [ न ] सहोत्पादात्, तस्यानित्यतानुषंगात् । नापि तद्देशे सत्त्वात्; पिण्डोत्पत्तेः प्राकू तत्र निराधारस्यास्याव्यवस्थानाभावात् भावे वा स्वाश्रयमात्रवृत्तित्वविरोधः । नाप्यंशवत्तया; निरंशत्वप्रतिज्ञानात् । ततो व्यक्त्यन्तरे सामान्यस्याभावानुषंगः ।
४५
$ ८. परेषां प्रयोगः– ये यत्र नोत्पन्ना नापि प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतमन्तः ते तत्रासन्तो, यथा खरोत्तमाङ्गे तद्विषाणम्, तथा च सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति । तदुक्तम् —
ङ्गीकरणात् ।
" न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्वमाधारमहो व्यसनसंततिः ॥"
[
] इति
९. नन्वेष दोषो भेदवादिनामेव न तु मीमांसकानाम्, तैः सामान्यव्यक्त्योस्तादात्म्या
Jain Education International
१. सामान्यस्य इति शेषः ।
२. सामान्यम् ।
1. थीं प्रव क० ख० । 2 मान स्यात् स्यान्य क०, ख० । 3. पिण्डे सहो, क०, ख० ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164