Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१९]
वैशेषिकशासन-परीक्षा 'समवायः पदार्थान्तरेण संबद्धयमानो न स्वतः संबद्धयते संबद्धयमानत्वात् रूपादिवत्' इत्यनुमानविरोधाच्च ।
$ १५. यदि चाग्नि-प्रदीपश्च मांसादीनामुष्णप्रकाशाशुचित्ववत् समवायः स्वपरयोः संबन्धहेतुः, तर्हि तदृष्टान्तावष्टम्भेनैव ज्ञानं स्वपरयोः प्रकाशहेतुः किं न स्यात् ; तथा च "शानं ज्ञानान्तरवेद्यं प्रमेयत्वात" [
] इति विप्लवते । १६. किं च, यथा अर्थानां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति एवं द्रव्यादीनां 'वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवृत्तिरिति मन्वानः पदाथानां संवेदनात्मकस्य ज्ञानस्य नान्यतः संवेदनम् , तस्मात स्वतः संवेदनमिति किं न मन्येत, भाववत्तादात्म्याविशेषात् । तदविशेषेऽपि सत्तादृष्टान्तेन समवायस्यैव स्वतो वृत्तिः स्यान्न पुनर्ज्ञानस्य स्वसंवेदनमिति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । स्वतः संबन्ध इव स्वतः संवेदनेऽपि स्वात्मनि क्रियाविरोधाभावात् , अन्यथा तत्रापि तत्प्रसंगात्। तस्यैकस्यैव संघटनीय-संघटकत्वभावात् ।
१७. यच्चोच्यते--समवायःसंबन्धान्तरं नापेक्षते स्वतः संबन्धत्वात; येतु संबन्धान्तरमपेक्षन्ते न ते स्वतः संबन्धाः, यथा घटादयः, न चायं न स्वतः संबन्धः, तस्मात्संबन्धान्तरं नापेक्षत इति; तदपि मनोरथमात्रम्: संयोगेनानेकान्तात् । स हि स्वतः संबन्धः संबन्धान्तरं चापेक्षते । न हि स्वतोऽसंवन्धस्वभावत्वे संयोगादेः परतस्तद्युक्तम् ; अतिप्रसंगात् । 'समवायः पदार्थान्तरेण संश्लेषे संबन्धान्तरमपेक्षते, पदार्थान्तरत्वात् , यदित्थं [ तदित्थं ], यथा संयोगः, तथा चायम्, तस्मात्तथैव, इत्यनुमानबाधितविषयत्वाच्च ।
१८. किं च, यथा समवायः स्वरूपापेक्षयाऽभेदात् तदव्यतिरिक्तघटनीय-घटकाकारापेक्षया भेदाभेदाभेदात्मकः सिद्धयति, तथावयव्याद्यपेक्षयाऽभेदात्तदपृथग्भूतावयवापेक्षयाभेदात् सर्व वस्तु भेदाभेदात्मकं जात्यन्तरं सिद्धयेत् , विरोधादिदूषणानां समवायदृष्टान्तेनापसारणात् इत्यहन्मतसिद्धिः तस्य तदिष्टत्वात् ।
"अभेदभेदात्मकमर्थतत्त्वं तव।" [ युक्त्यनु० श्लो० ७ ] इति वचनात् । तन्मतसिद्धौ ‘पराभिमतभेदै कान्तरूपं वस्तु खपुष्पवदसदेव स्यात् ।'
"स्वतन्त्रान्यतरत् खपुष्पम्” [ युक्त्यनु० श्लो० ७ ] इति वचनात् ।
$ १६. तदेवं स्वतः परतश्च समवायस्य समवायिषु वृत्तिर्न स्यात, अवृत्तिमत्त्वात् समवायवृत्तेने परमार्थतः समवायः समवाय्याश्रितः परैस्तस्य स्वातन्त्र्याभ्युपगमाच्च । नाप्युपचारात् , उपचारनिमित्ताभावात् ।
१. "तस्मात् ज्ञानान्तरसंवेयं संवेदनं वेद्यत्वात् । घटादिवत्"-प्रश० व्यो० पृ० ५२९ । २. संबन्धस्वभावत्वम् । ३. अन्येन संबन्धेन संबद्धत्वाभावात् ।
1. यथा सदात्मक-क०ख०। 2. एवं वृत्यात्मकस्य क..ख०। 3. -मन्वानः संव-ख० । 4, -तु भेदात्मकं ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164