SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १९] वैशेषिकशासन-परीक्षा 'समवायः पदार्थान्तरेण संबद्धयमानो न स्वतः संबद्धयते संबद्धयमानत्वात् रूपादिवत्' इत्यनुमानविरोधाच्च । $ १५. यदि चाग्नि-प्रदीपश्च मांसादीनामुष्णप्रकाशाशुचित्ववत् समवायः स्वपरयोः संबन्धहेतुः, तर्हि तदृष्टान्तावष्टम्भेनैव ज्ञानं स्वपरयोः प्रकाशहेतुः किं न स्यात् ; तथा च "शानं ज्ञानान्तरवेद्यं प्रमेयत्वात" [ ] इति विप्लवते । १६. किं च, यथा अर्थानां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति एवं द्रव्यादीनां 'वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवृत्तिरिति मन्वानः पदाथानां संवेदनात्मकस्य ज्ञानस्य नान्यतः संवेदनम् , तस्मात स्वतः संवेदनमिति किं न मन्येत, भाववत्तादात्म्याविशेषात् । तदविशेषेऽपि सत्तादृष्टान्तेन समवायस्यैव स्वतो वृत्तिः स्यान्न पुनर्ज्ञानस्य स्वसंवेदनमिति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । स्वतः संबन्ध इव स्वतः संवेदनेऽपि स्वात्मनि क्रियाविरोधाभावात् , अन्यथा तत्रापि तत्प्रसंगात्। तस्यैकस्यैव संघटनीय-संघटकत्वभावात् । १७. यच्चोच्यते--समवायःसंबन्धान्तरं नापेक्षते स्वतः संबन्धत्वात; येतु संबन्धान्तरमपेक्षन्ते न ते स्वतः संबन्धाः, यथा घटादयः, न चायं न स्वतः संबन्धः, तस्मात्संबन्धान्तरं नापेक्षत इति; तदपि मनोरथमात्रम्: संयोगेनानेकान्तात् । स हि स्वतः संबन्धः संबन्धान्तरं चापेक्षते । न हि स्वतोऽसंवन्धस्वभावत्वे संयोगादेः परतस्तद्युक्तम् ; अतिप्रसंगात् । 'समवायः पदार्थान्तरेण संश्लेषे संबन्धान्तरमपेक्षते, पदार्थान्तरत्वात् , यदित्थं [ तदित्थं ], यथा संयोगः, तथा चायम्, तस्मात्तथैव, इत्यनुमानबाधितविषयत्वाच्च । १८. किं च, यथा समवायः स्वरूपापेक्षयाऽभेदात् तदव्यतिरिक्तघटनीय-घटकाकारापेक्षया भेदाभेदाभेदात्मकः सिद्धयति, तथावयव्याद्यपेक्षयाऽभेदात्तदपृथग्भूतावयवापेक्षयाभेदात् सर्व वस्तु भेदाभेदात्मकं जात्यन्तरं सिद्धयेत् , विरोधादिदूषणानां समवायदृष्टान्तेनापसारणात् इत्यहन्मतसिद्धिः तस्य तदिष्टत्वात् । "अभेदभेदात्मकमर्थतत्त्वं तव।" [ युक्त्यनु० श्लो० ७ ] इति वचनात् । तन्मतसिद्धौ ‘पराभिमतभेदै कान्तरूपं वस्तु खपुष्पवदसदेव स्यात् ।' "स्वतन्त्रान्यतरत् खपुष्पम्” [ युक्त्यनु० श्लो० ७ ] इति वचनात् । $ १६. तदेवं स्वतः परतश्च समवायस्य समवायिषु वृत्तिर्न स्यात, अवृत्तिमत्त्वात् समवायवृत्तेने परमार्थतः समवायः समवाय्याश्रितः परैस्तस्य स्वातन्त्र्याभ्युपगमाच्च । नाप्युपचारात् , उपचारनिमित्ताभावात् । १. "तस्मात् ज्ञानान्तरसंवेयं संवेदनं वेद्यत्वात् । घटादिवत्"-प्रश० व्यो० पृ० ५२९ । २. संबन्धस्वभावत्वम् । ३. अन्येन संबन्धेन संबद्धत्वाभावात् । 1. यथा सदात्मक-क०ख०। 2. एवं वृत्यात्मकस्य क..ख०। 3. -मन्वानः संव-ख० । 4, -तु भेदात्मकं ग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy