________________
सत्यशासन-परीक्षा
[१० १०. ननु समवायात्तेभ्योऽवय व्यादिरर्थान्तरमिव प्रतिभासत इति चेत ; न, अवयव्यादिप्रत्यक्षस्य सर्वत्र भ्रान्तत्वप्रसंगात , तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्य 'धाववादिदर्शनवदसदाकारविशिष्टार्थग्रहणात् । तथा चाव्यभिचारित्वं प्रत्यक्षलक्षणमसंभवि स्यात् ।
११. न चैते अवयवादयः, इमे अवयव्यादयः, समवायश्च तेषामयमिति प्रत्यक्षबुद्धौ विस्रसा भिन्ना सकृदपि प्रतीयन्ते प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीति तेऽमी अमूल्यदानक्रयिणः; प्रत्यक्षबुद्धावात्मानर्पणेन प्रत्यक्षतास्वीकरणात् ।
$ १२. न च 'परोपवर्णितस्वरूपः समवाय एव व्यवतिष्ठते । यतो भिन्नानामभेदप्रतिभास इष्यते । तथा हि नित्यव्यापकैकरूपतया परैरभिमतः ‘स समवायः समदाय्याश्रितोऽनाश्रितो वा, यदाश्रितः तदा परमार्थतः, उपचाराद्वा, तत्र न परमार्थतः समवायः समवाय्याश्रितः तयोः संबन्धाभावात् । न हि तावत्तयोः समवायः संबन्धः; समवायस्यैकत्वात् । समवायस्य समवायान्तरेण वृत्तौ तस्यापि तदन्तरेणैव वृत्तिरित्यनवस्थोपनिपातात् । नापि संयोगः, तस्य गुणत्वेन द्रव्याश्रितत्वात् , द्रव्यत्वाच्च समवायस्य । नापि विशेषणविशेप्यभावः; संबन्धान्तराभिसंबद्धार्थेष्वेवास्य प्रवृत्तिप्रतीतेः दण्डपुरुषादिवत् , अन्यथा सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् । न च समवायसमवायिनां संबन्धान्तराभिसंबद्ध त्वम् ; संयोगसमवाययोरनभ्युपगमात् विशेषणविशेष्यभावान्तरेण संबद्धत्वे तस्यापि तदन्तरेण संबद्धेष्वेव प्रवृत्तिरित्यनवस्थानात् । नाप्यदृष्टम् , पोढा संबन्धवादित्वव्याघातात । यदि चादृष्टेन समवायः संबद्धयेत; तर्हि गुणगुण्यादयोऽप्यत एव संबद्धा भविष्यन्तीत्यलं समवायादिकल्पनयेति न संबन्धान्तरेण समवायस्य संबन्धः सिद्धयति ।
१३. नन न समवायस्य संबन्धान्तरेण संबन्धोऽस्माभिरिष्टः येनानवस्थादिदोषाः स्युः, अपि तु अग्नेरुष्णतावत् स्वत एवास्य संबन्धो युक्तः स्वत एव संबन्धरूपत्वात् , न संयोगादीनां 'तदभावात् । न ह्येकस्य स्वभावोऽन्यस्यापि, अन्यथा स्वतोऽग्नेरुष्णत्वदर्शनात् जलादीनापि तत्स्यादिति चेत् ; तदपि प्रलापमात्रम् ; यतः प्रत्यक्षप्रसिद्ध पदार्थस्वभावे स्वभावैरुत्तरं वक्तुं युक्तम् ।
"प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । स्वभावैरुत्तरं वाच्यं दृष्टे काऽनुपपन्नता ॥"
] इति वचनात् । अन्यथा तथोत्तरेण सर्वस्य स्वेष्टसिद्धिप्रसंगात् ।
$ १४. न च समवायस्य स्वतः संबन्धत्वं संयोगादीनां तु तस्मादित्यध्यक्षप्रसिद्धम्; तत्स्वरूपम्याध्यक्षागोचरत्वप्रतिपादनात् । “अत एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषु वृत्त्यभावात् , स्वात्मगतसंवेदनाभावाच्च ।” [प्रश० भा० पृ० ६९७] इति'' प्रशस्तपादभाष्येऽभिधानात्।
१. गच्छवृक्षादिदर्शनवत् । २. 'इन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्' -न्यायसू० १।।४ । ३. स्वभावेन । ४. समवाय-समवायिनोः । ५. संयोगस्य । ६. विशेषविशेष्यमावस्य । ७. संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषण.विशेष्यभावश्चेति । ८. अदृष्टादेव । ९. स्वतः संबन्धरूपत्वाभावात् । १०. 'स्वभावात्' इत्युत्तरेण । ११. 'तस्मादिह बुद्धयनुमेयः समवायः' -प्रश. भा०।
1. एतदन्तर्गतः पाठःक०, ख० प्रती नास्ति। 2. रोक्षव-क०, ख०। 3. वृत्तिरित्यवस्थो-ख०। 4. समबन्धत्वम क.। 5. गुणादयोऽपि ग.। 6. ननु सम-क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org