________________
३५
वैशेषिकशासन-परीक्षा बन्धलक्षणजन्मनिवृत्तिरित्यागामिकर्मबन्धनिवृत्तिस्तत्त्वज्ञानादेव भवति । प्रागुपार्जिताशेषकर्मपरिक्षयस्तु भोगादेव नान्यथा। तथा चोक्तम्
"नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥"
___] इति ६ . तत्रापि
"कुर्वन्नात्मस्वरूपशः भोगात्कर्मपरिक्षयम् ।। युगकोटिसहस्राणि कृत्वा तेन विमुच्यते ॥"
इत्येकः पक्षः।
"श्रात्मनो वै शरीराणि बहूनि मनुजेश्वरः । प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं वरेत ॥ भुजीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ॥"
] इति एकस्मिन्नेव भवे बहुभिः शरीरैः प्रागुपार्जिताशेषफलभोग इत्यपरः पक्षः । ततश्च भोगात् प्रागुपार्जिताशेषकर्मपरिक्षये एकविंशतिभेदभिन्नदुःखनिवृत्तिरिति । ७. तानि दुःखानि कानीति चेत्,
"संसर्गः सुखदुःखे च तपा[था]र्थेन्द्रियबुद्धयः। प्रत्येकं षड्विधाश्चेति दुःखसंख्यैकविंशतिः॥"
] इति सकलपुण्यपापपरिक्षयात् तत्पूर्वकबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराणामपि परिक्षये आत्मनः कैवल्यं मोक्ष इति । [ उत्तरपक्ष:]
$ ८. तदेतदौलूक्यशासनं तावत दृष्टविरुद्धम् । तदभिमतस्यावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्यो दैकान्तस्य तदभेदग्राहिणा प्रत्यक्षेण 'विरुद्धत्वात् ।
९. न यवयव्यादिरवयवादिभ्यः सर्वथा भिन्न एव प्रत्यक्षे प्रतिभासते, अपि तु कथंचिदभिन्न एव । तन्तुभ्यः तदातानवितानावस्थाविशेषरूपस्य पटस्य कर्पट्यादेश्चित्रज्ञाने नीलादिनिर्मासवत् ; तत्रैकलोलीभावमुपगतानां रूपादीनां गच्छतः, पुरुषाद् बाल्यादिवत् , स्थित्यादिवद्वा तदवस्था विशेषभूतक्रियायाः सामान्यवतोऽर्थाद् वैसादृश्यवत्तधर्मभूतसादृश्यलक्षणसामान्यस्य अनर्थान्तरतया सकललोकसाक्षिकमध्यक्षेणादध्यवसायात् ।
1. -परीक्षयम् क० । 2. इदं पद्यं क०, ख० प्रतौ नास्ति । 3. -कर्मपरिकर्मक्षये क०, ख० । 4. तानि चेत् ग०। 5. -लुक्यशा क०। 6. -नं दृष्ट- ग.। 7. प्रत्यक्षेणावि- ग०। 8. चित्रपट्यादौ इत्यर्थः । कर्कट्यादेः क, ख । 9. लोविभा- ग०। 10. -णाध्यवसायात क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org