________________
[ वैशेषिकशासन-परीक्षा
[ पूर्वपक्ष: ]
$ १ अथ वैशेषिकमतमपि दृष्टेष्टविरुद्धम् । तावदिदं हि तेषामाकूतम् - बुद्धिसुखदुखेच्छाद्वेषप्रयत्नधर्माधर्म संस्काराणां नवानामात्म विशेष' गुणानामत्यन्तोच्छित्तावात्मनः स्वात्मन्यवस्थानं मोक्षंः, अन्यथा आत्मनोऽत्यन्तविशुद्ध्यभावादिति । " द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्य वैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः ।" [ प्रश० भा० पृ० ६ ] शैवपाशुपतादिदीक्षाग्रहण-जटाधारण- त्रिकालभस्मोद्धूलनादितपोऽनुष्ठानविशेषश्च ।
$ २. " तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंशोक्तानि नवैव । तद्व्यतिरेकेण संज्ञान्तरानभिधानात् ।" "गुणाः रूप-रस गन्ध-स्पर्शसंख्या- परिमाण- पृथक्त्व-संयोग-विभाग- परत्व - अपरत्व - बुद्धि-सुख-दुःख - इच्छा-द्वेष प्रयत्नाश्च कण्ठोक्ताः सप्तदश, चशब्दसमुच्चिताश्च गुरुत्व - द्रवत्व-स्नेह-संस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिगुणाः ।" [ प्रश० भा० पृ० १०] "उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनान पञ्चैव कर्माणि । गमनग्रहणाद्भ्रमणरेचनस्पन्दनोर्ध्वज्वलन तिर्यग्पतननमनोन्नमनादयो गमनबिशेषा न जात्यन्तराणि ।" [ प्रश० भा०, पृ० ११ ] " सामान्यं द्विविधम्, परमपरं चानुवृत्तिप्रत्ययकारणम् ।
।
$ ३. " तत्र परं सत्ता महाविषयत्वात् सा चानुवृत्तेरेव हेतुत्वात् सामान्यमेव । द्रव्यत्वाद्यपरम् अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाख्यामपि लभते । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिबुद्धिहेतुत्वात् विशेषा एव । अयुतसिद्धानामाधार्याधारभृतानां यः संबन्ध इह प्रत्ययहेतुः स समवायः ।
$ ४. “एवं धर्मैर्विना धर्मिणामुद्देशः कृतः । षण्णामपि पदार्थानां साधर्म्य मस्तित्वमभिधेयत्वं ज्ञेयत्वम् । श्राश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः । द्रव्यादीनां पञ्चानामपि समवायित्वमनेकत्वं च । 'गुणादीनां पञ्चानामपि' निगुर्णत्व-निष्क्रियत्वे ।" [प्रश० भा०, पृ० १११६] इत्याद्यनेकविधं साधर्म्यं वैधर्म्यं चेति तत्त्वज्ञानं मोक्षहेतुः । तद्यथा, " दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ।" [ न्यायसू० १ १ २ ]
$ ५. तत्र तत्त्वज्ञानान्मिथ्याज्ञानं निवर्तते; मिथ्याज्ञानानिवृत्तौ तज्जन्यरागद्वेषनिवृत्तिः; तद्दोषनिवृत्तौ तज्जन्यकायवाङ मनोव्यापाररूपप्रवृत्तिनिवृत्ति:; तत्प्रवृत्तिनिवृत्तौ तज्जन्यपुण्यपाप
१. 'नवानामात्म विशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । ' - प्रश० व्यो० पृ० ६३८ । २. 'धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञान्निःश्रेयसः ।'— वैशे० सू० १।१।४। ३. किं तु गमन एवान्तर्भूतानि । ४. नित्यद्रव्याणि न कार्यद्रव्यवत् स्वकारणाश्रितानि भवन्ति ।
1. नवानामात्मगुणविशेषाणाम् क०, ख० । 2. - दीनामपि क०, ख० । 3. – त्तरपाये क०, ख० । 4. प्रवृत्तिनिवर्तते ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org