________________
१६]
सांख्यशासन-परीक्षा स्यात् , उर्वीपर्वततर्वादिपदार्थानां ब्रह्ममयत्ववत् प्रधानमयत्वस्यापि प्रत्यक्षेणानुपलक्षणात् सिद्धं सांख्यशासनं दृष्टविरुद्धम् ।
१७. तथा तदिष्टविरुद्धं च । कापिलाभिमतस्य कूटस्थनित्यपुरुषस्य कथंचित्तदनित्यत्वसाधकानुमानेन विरुद्धत्वात् । तच्चेदम् –विवादापन्नः पुरुषः स्यादनित्यः, अनित्यभोगाभिन्नत्वात् । यदित्थं तदित्थं दृष्टम् ; यथा भोगस्वरूपमिति ! नासिद्धं भोगस्यानित्यत्वम् , 'अनित्यो भोगः उत्पत्तिमत्त्वात् , ज्ञानवत' इत्यनुमानात्तत्सिद्धेः ।
$ १८. कथमुत्पत्तिमान् भोग इति चेत् , परापेक्षत्वात्तद्वदेव परापेक्षोऽसौ बुद्ध्यध्यवसायापेक्षत्वात् । “बुद्धयवसितमर्थ पुरुषश्चेतयते” [ ] इति वचनात् । भोगस्य बुद्ध्यध्यवसायानपेक्षत्वे पुंसः सर्वत्र सर्वदा सर्वभोगप्रसंगात् । भोग्यसंनिधिसव्यपेक्षतया कादाचित्कत्वाच्चानित्यः सिद्धो भोगः । तस्य च पुरुषाद् भेदे तेन तस्य गगनादेरिव पुरुषान्तरस्यैव वा भोक्तृत्वानुपपत्तेः । ततो भोगस्याभेदे तद्रूपतया पुरुषस्य कथंचिदनित्यत्वं सिद्धयतीति सम्यगिदं साधनमात्मानित्यत्वं साधयति । ततः सूक्तम्-सांख्यमतमिष्टविरुद्धमिति ।
$ १९. तथा चतुर्विधवर्णाश्रमतत्तद्विधेयविविधाचारपुण्य-पाप-परलोक-बन्ध-मोक्ष-तत्कारण-तत्फल-बद्ध-मुक्तादिस्वरूपप्रतिपादकः सांख्यागमो न प्रमाणं दृष्टेष्टविरुद्धागमाभिन्नस्य तस्य परोक्षतत्कारणेषु प्रामाण्यसंभावनानुपपत्तेरिति न तेषां धर्मानुष्ठानं प्रतिष्ठामियति । किमत्र बहुनोक्तेन यत् किंचित् सेश्वरनिरीश्वरसांख्यैरसंख्यावद्भिराख्यायते तत्सर्व मृषैव, तदभिमतसकलतत्त्वानामा:विर्भावाद्यपाकरणद्वारेण शून्यत्वस्यापादितत्वादित्यलं प्रसंगेन, दृष्टेष्टविरुद्धत्वात् सांख्यशासनस्यासत्यत्वसिद्धेः।
दृष्टेष्टेषु दृष्टेष्टविरोधात् सांख्यसंमतः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् ॥ आविर्भावच्युतौ सर्वच्युतेः सांख्यवचोऽखिलम् । भवेत् प्रलापमात्रत्वात् नावधेयं विपश्चिताम् ।। न सांख्यशासनं सत्यं दृष्टदृष्टेष्टबाधतः । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥
[इति सांख्यशासन-परीक्षा ]
१. पुरुषात् ।
1. -माना त्सद्धेः क., ख०। 2. कदाचित्-क०, ख०। 3. तत्त्वामावि-क० । 4. दृष्टेष्विष्टेषु ख०, ग०। 5. प्रमाण्यताम् क०, ग० । 6. -दश्चेति क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org