________________
सत्यशासन-परीक्षा
[२०२०. ननु निमित्तमुपचारस्य समवायिषु सत्सु समवायज्ञानम्, समवायिशून्यदेशे समवायज्ञानासंभवादिति चेत; तदसत; दिगादीनामप्येवमाश्रितत्व प्रसंगात् ; मूर्तद्रव्येषु सत्सु उपलब्धिलक्षणप्राप्तेषु दिग्लिङ्गस्य 'इदमतः पूर्वेण' इत्यादि प्रत्ययस्य काललिङ्गस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् मूर्तद्रव्याश्रितत्वोपचारप्रसंगात् । तथा च "अन्यत्र नित्यद्रव्येभ्यः"[प्रश० भा०, पृ०१६] इति वचनव्याघातः, नित्यद्रव्यस्यापि दिगादेरुपचारादाश्रितत्व सिद्धः । ततो नोपचारादप्याश्रितत्वं समवायस्य ।
२१. अथानाश्रितः समवायः इति मतम्, तदा न संबन्धः समवायः संबन्धिभ्यां भिन्नस्योभयाश्रितस्यैव संयोगवत संबन्धत्वव्यवस्थितेः । तथा च प्रयोगः-समवायो न संबन्धः सर्वथाऽनाश्रितत्वात् , यो यः सर्वथाऽनाश्रितः स स न संबन्धः, यथा दिगादिः, सर्वथाऽनाश्रितश्च समवायः, तस्मान्न संबन्ध इति । न चात्रासिद्धो हेतुः, समवायस्य परमार्थत उपचाराच्चाश्रितत्वस्य निराकृतत्वात् ।
$ २२. स्यादाकृतम्-समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोराश्रयासिद्धत्वम्, प्रतिपत्तौ धर्मिग्राहकप्रमाणवाधितः पक्षो हेतुश्च कालात्ययापदिष्टः प्रसज्यते । समवायो हि यतः प्रमाणात् प्रतिपन्नस्तत एवायुतसिद्धसंबन्धत्वं प्रतिपन्नम् अयुतसिद्धानामेव संबन्धस्य समवायव्यपदेशसिद्धेरिति, तदपि न साधीयः; समवायग्राहिणा प्रमाणेनाश्रितस्यैव समवायस्य अविष्वग्भावलक्षणस्य प्रतिपत्तेः, तस्यानाश्रितत्वाभ्युपगमे च असंवन्धत्वस्य प्रसंगेन साधनस्य साधनात् । साध्यसाधनयोाप्यव्यापकभावसिद्धौ परस्य व्याप्याभ्युपगमे तन्नान्तरीयकस्य व्यापकाभ्युपगमस्य प्रतिपादनात् । न ह्याश्रितत्वमसंबन्धत्वेन व्याप्तं दिगादिष्वसिद्धम् । नाप्यनैकान्तिकम् ; अनाश्रितस्य कस्यचित् संबन्धत्वाप्रसिद्धेः विपक्षे वृत्त्यभावात् । तत एव न विरुद्ध नापि सत्प्रतिपक्षम् ; तस्यानाश्रितस्यापि संबन्धत्वव्यवस्थापकानुमानाभावादिति न परेषां समवायसंबन्धोऽस्ति, यतस्तद्वशादभिन्नानामप्यवयव्यादीनामभेदेन प्रतिपत्ति रुपपद्येत । ततस्ते भेदेनैव प्रतियेरन्11 न चैवमतः प्रत्यक्षविरोधो दुःशकः परिहर्तुं परेषाम् ।
२३. किं च, प्रतिपादितप्रकारेण समवायस्यासंभवे संयोगस्याप्यसंभवः तस्य कार्यस्य कारणसमवायाभावेऽनुपपत्तेः ।
२४. एवं संबन्धाभावे न किंचित् वस्तु भेदैकान्तबादिमते व्यवतिष्ठते । तथा हितावत् परमाणूनां संयोगाभावे द्वयणुकादिप्रक्रमेणावयविनोऽनुत्पत्ते:12 कार्यरूपभूतचतुष्टयाभावः, तदभावे तत्कारणचतुर्विधपरमाणवोऽपि न संभाव्यन्ते; कार्यलिङ्गत्वात् कारणस्य । __ "कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् ।।
[ आप्तमी० श्लो० ६८]
१. उक्तानुमाने २. तदविनामाविनः । ३. कार्यभूतपृथिव्यादिकारण ।
1. -स्येकदमत: क०, ख० । 2. वचनघातः ग० । 3. -रावाश्रित-क० । 4. -तस्यैकस्यैवाक०, ख०। 5. प्रमाणाप्रतिपन्नः क०, ख० । 6. प्रतिपत्तिः क०, ख०। 7. असंबन्धस्य क०, ख० । 8. प्रसंगेन साधनात् ग०। 9. -ब निरुद्धंक०, ख०। 10. प्रतीति- ख.। 11, प्रतियेतन् क० । 12. -विनोत्पत्तेः क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org