________________
२७]
बैशेषिकशासन-परीक्षा इति वचनात् । तथा भूत चतुष्टयासत्त्वे 'परापरादिप्रत्ययापायात् । ' इदमतः पूर्वेण' इत्यादि प्रत्ययापायाच्च [ न ] कालो दिक्च व्यवतिष्ठते । तथा भेरीदण्डाद्याकाशसंयोगाभावात्
संयोगजशब्दस्यानुत्पत्तिः, सर्वत्रावयवसंयोगाभावे तद्विभागस्याप्ययोगाद् विभागजशब्दस्याप्यनुत्पत्तिः; तयोरनुदये शब्दजशब्दस्यासम्भवः; इति सकलशब्दानुत्पत्तेराकाशव्यवस्थापकोपायादाकाशहानिः । तथा आत्मान्तःकरणसंयोगासिद्धेः बुद्ध्यादिगुणानुत्पत्तिः; तदभावे चात्मव्यवस्थाप
कोपायासत्त्वादात्मतत्त्वहानिः । तथा बुद्ध्यनुत्पत्तौ मनसोऽसिद्धिः; क्रमतो ज्ञानोत्पत्तेमनोलिङ्गत्वात्। "युगपज्शानानुत्पत्तिर्मनसो लिङ्गम्” [ न्यायसू० १।१।१६ ] इति वचनात् ।
$ २५. *एवं संयोगाभावे सर्वद्रव्याभावः । अथवा समवायाभावे सत्तासमवायासंभवात् सर्वद्रव्यः प्रच्युतः । सर्वद्रव्यहानौ तदाश्रितगुणकर्मसामान्यविशेषाणामसिद्धिः आश्रयाभावे सत्याश्रयिणा[म] भावात् , *"तन्त्वभावे पटाभाववदिति । संसर्गहानेः सकलार्थहानिर्दुर्निवारा वैशेषिकाणामुपनिपतति । तदुक्त स्वामिसमन्तभद्रपादैः
"अभेदभेदात्मकमर्थतत्त्वं तव स्वतन्त्रान्यतरत्खपुष्पम् । अवृत्तिमत्त्वात् समवायवृत्तः संसर्गहानेः सकलार्थहानिः ॥"
- [युक्त्यनु० श्लो० ७ ] इति $ २६. एवं विचार्यमाणाः सर्वथाभिन्नावयवावयव्यादयः स्वयमेव न सन्ति यतः प्रत्यक्षेण प्रतिभासेरन् । तत्पत्यनीकाश्च 'कथंचिद्भिन्नास्ते प्रत्यक्षतः प्रतिभासन्त इति स्थितं दृष्टविरुद्धं शेषिकमतमिति ।
$ २७. तथा तदिष्टविरुद्धं च । तथा हि-विवादापन्नं 'तनुकरणभुवनादिकं बुद्धिमद्धेतुकं कार्यत्वात् घटादिवत्' इति जगतो महेश्वरकृतत्वं यौगैः व्यवस्थाप्यते, तच्चानुमानविरुद्धम् , तद्वाधकानुमानसद्भावात् । तच्चेदम्-नेश्वरस्तन्वादीनां कर्ता, अशरीरत्वात् , य एवं स एवम् , यथात्मा, तथा चायम् , तस्मात्तथैवेति । न चात्रासिद्धो हेतुः, तस्य शरीरत्वायोगात् । तच्छरीरस्य सावयवस्य नित्यत्वानुपपत्तेः । 1°नित्यस्यापि तच्छरीरस्य बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात्। तस्य बुद्धिमत्कारणसपूर्वत्वे वा परापरशरीरकल्पनायामनवस्थाप्रसंगात । पूर्वपूर्वस्य शरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसा। णां तथा प्रसिद्धरीश्वरकल्पनावैयर्थात् । स्वोपभोग्यभुवनाद्यत्पत्तावपि11 तेषामेव निमित्तकारणत्वोपपत्तेरिति तत् कार्यत्वाचेतनोपादानत्वसन्निवेशविशिष्टहेतवो गमकाः स्युः । “अशरीरंवा वसन्तं न प्रियाप्रिये स्पृशतः।" [ छान्दो० ८।१२।१] इत्यागमविरोधाच्च ।
१. देशापेक्षया अपरस्मिन् परं युगपश्चिरं क्षिप्रमिति कार्यलिङ्गानि । २. इदमतो दक्षिणेनेत्यादि । ३. भेर्याकाशसंयोगो निमित्तकारणम् । ४. अवयवविमागस्यापि। ५. संयोगजविभागजशब्दयोरमावे । ६. अवयम्यादयः । ७-८. ईश्वरस्य ।
1. प्रत्ययादिदमतः क०, ख०। 2. संयोगशब्द- क०, ख०। 3. -कोपायसत्त्व- ग० । 4. -यिणाभावा-क०, ख० । 5. -एतदन्तर्गतः पाठः ग०प्रतो नास्ति । 6. प्रत्यक्षे प्रति-क०, खः । 7. कथंचिदभिन्नाः क०, ख०। 8. नानासिद्धो क०, ख०। 9. सावयस्य क०, ख० । 10. -तेरनित्यस्यापि ख०। 11. भुवनाद्युत्तावपि क०, ख०। 12. -रं नावसन्तं क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org