________________
सत्यशासन - परीक्षा
[ २८
$ २८. एवमशरीरत्वे सिद्धे नेश्वरस्तस्य तन्वादीनां कर्ता स्यात्, वितनुकरणस्य तस्य तत्कृतेरयोगात् । तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमविप्रतिषिद्धम्, सर्वथा दृष्टान्तव्यतिक्रमात् । यथैव हि कुलाला दिसतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तः तनुकरणभुवनादीनामशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनयाव्यतिक्रम्यते तथा कर्मणामचेतनानामपि तन्निमित्तत्वं कल्पनया बुद्धिमानपि दृष्टान्तो व्यतिक्रम्यतां विशेषाभावात् ।
४०
$ २९. स्यान्मतम् - सशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयोक्तृत्वं दृष्टम्, कुटादिकार्यं कर्तुमबुद्ध्यमानस्य तददर्शनात्, बुद्धिमतोऽपीच्छापाये तदनुपलब्धेः; तदिच्छावतोऽपि प्रयत्नाभावे तदनुपलम्भात्; तद्वद्वितनुकरणस्यापि बुद्धिमतः स्रष्टुमिच्छतः प्रयत्नवतः शश्वदीश्वरस्य समस्तकारकप्रयोक्तृत्वोपपत्तेर्न दृष्टान्तव्यतिक्रमः, सशरीरत्वेतरयोः कारकप्रयुक्ति प्रत्यनङ्गत्वात् । न हि सर्वथा दृष्टान्तदाष्टन्तिकयोः साम्यमस्ति तद्विशेषविरोधादिति तदयुक्तम्, बुद्ध्यादीनामपि तस्यासंभवात् । ईश्वरो ज्ञानचिकीर्षाप्रयत्नत्रयवान्न भवति; अशरीरत्वात्; मुक्तात्मवदिति तदभावसिद्ध ेः । अशरीरत्वाविशेषेऽपि सादिमुक्तानामेव बुद्ध्यादिरहितत्वं न त्वनादिमुक्तस्येश्वरस्येति चेत्; न, अनादिमुक्त सिद्ध: । 'ईश्वरस्याशरीरत्वं सादि अशरीरत्वात् मुक्तात्माऽशरीरत्ववत्' इति तद्वाधकसद्भावात् । अत्राप्यशरीरत्वाविशेषेऽपि मुक्तात्माशरीरत्वमेव सादि न त्वीश्वराशरीरत्वमिति चेत्; नं, अनुपपत्तिकत्वात्; जगत्कर्तृत्व सर्वज्ञत्वादीनामीश्वरविशेषणानां विवाद्गोचरत्वे न ततो वैलक्षण्याभिधानानुपपत्तेः । तथापि यदि तथेष्यते तर्हि कार्यत्वाविशेषेऽपि घट-पट कट-कटक शकट-मुकुटादीनां बुद्धिमद्धेतुकत्वं न तु मही- महीधर - महीरुहादीनामिति किं नेष्यते । अकृतसमयस्यापि कृतबुद्ध्युत्पादकेभ्यो घटादिभ्यः 'तदनुत्पादक भुवनादीनां वैलक्षण्यस्यापि संभवात् । एवम बुद्धीच्छा प्रयत्नवत्त्वासिद्धेः तदसिद्धौ सकलकारकप्रयोक्तृत्वानुपपत्तेः सूक्तमीश्वरस्तन्वादीनां न कर्तेति ।
*
३०. तथापि यदि वैय्यात्यादीश्वरः कर्तेत्यभिधीयते तदा प्राणिनां विचित्रघोरदुःखशतानीश्वरः करोति वा न वा, यदि न करोति तदा तैः कार्यत्वादिहेतूनां व्यभिचारः । अथ करोतीति मतम्, तदसंभाव्यम्; इह हि कश्चिदसर्वज्ञो प्रणष्टरागद्वेषो मुनिरन्यो वा साधुः परपीडां न करोति किल, स एव महर्षीणामप्याराध्यः सर्वज्ञो वीतरागद्वेषमोही भगवान् महेश्वरः प्राणिनामनिमित्तमसह्यविविधोग्रदुःखपरम्परामुत्पाद्य जगत्त्रयं परिपीडयतीति कथमिदं प्रेक्षावद्भिः संभाव्यते । तत्करणे वा तस्य अत्युग्रा पूर्वराक्षसत्वमेव, न तु महद्भिः स्तुत्यं महेश्वरत्वमिति तस्य तत्करणमसंभाव्यम् ।
७
$ ३१. ननु [ न ] प्राणिनामीश्वरो + दुःखमुत्पादयतीति चेत्; न; दुःखहेतूनामपि पापकर्मणामीश्वरकृतत्वे तस्यैवं दुःखहेतुत्वसिद्धेः, तत्पक्षोपक्षिप्तदोषानुषंगात् । तेषां तदकृतत्वे तनुकरणादेरपि तत्कृतत्वं मा भूत्; विशेषाभावात् । कर्मभिरीश्वरसाधक हेतूनामनैकान्तिकत्वाच्च;
१. तनुकरणरहितस्य । २. कार्यकर्तृत्वाभावात् । ३. ईश्वरस्य । ४ श्रग्रहीत संकेतस्थापि । ९. कृतबुद्धयनुत्पादक । ६. ईश्वरस्यैव । ७. कर्मणाम् ।
1. - प्रजक - क्र०, ख० । 2. कारक: प्रयो- क०, ख० । 3 तस्य संभवात् क० । 4. - नादीश्वरो
ख० ।
क„
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org