________________
-३५] वैशेषिकशासन-परीक्षा
४१ कर्मणामबुद्धिमन्निमित्तत्वेऽपि कार्यत्वार्थक्रियाकारित्वस्थित्वा(त्या) प्रवर्तनानां संभवात् । यदि 1कल्पयित्वापीश्वरमवश्यं कर्मानुमन्यते; तदा केवलं कर्मैव तनुकरणादिनिमित्तमिष्यताम् , किमनेनेश्वरेण प्रमाणबाधितेन, तथा च परेषां पारंपर्यपरिश्रमपरिहारः स्यात् ।
३२. ननु कथमचेतनानां कर्मणां विचित्रोपभोगयोग्यतनुकरणाद्युत्पादकत्वमिति चेत् ; कथमुन्मत्तमदिरामदनकोद्रवादीनामुन्मादादिविचित्रकार्योत्पादकत्वम् । कथं वा अयस्कान्तविशेषाणां लोहाकर्षणभ्रमणादि-कार्यकारित्वमित्यभिधीयताम् । तथादृष्टत्वादिति चेत् ; तत एव प्रकृतः स्वभावव्यालम्भो'ऽपि निवर्त्यताम् । तथा 'सुखदुःखलाभालाभादीनामदृष्टं कारणमस्ति, दृष्टकारणव्यभिचारान्यथानुपपरोः' इत्यनुमितत्वात् । न चैवमीश्वरस्याप्यनुमितत्वादुपालम्भप्रसंगनिवृत्तिः स्यादिति शङ्कनीयम् , तदनुमानस्यानेकदोषदुष्टत्वात् ।
$ ३३. तथाहि-तनुकरणभुवनादेः कार्यत्वादिसाधनं किमेकबुद्धिमत्कारणत्वं साधयेत् , अनेकबुद्धिमत्कारणं वा, प्रथमपक्षे प्रासादादिना अनेकसूत्रधारयजमानादिहेतुना तदनैकान्तिकम् । द्वितीयपक्षे सिद्धसाधनम् , नानाप्राणिनिमित्तत्वात्तदुपभोग्यतन्वादीनाम् , तेषां तददृष्टकृतत्वात् ।।
६३४. एतेन बुद्धिमत्कारणसामान्यसाधने सिद्धसाधनमुक्तम् ; तदभिमतविशेषस्याधिकरणसिद्धान्तन्यायेनाप्यसिद्धेः । सामान्यविशेषस्य साध्यत्वाददोष इति चेत्, न; दृष्टादृष्टविशेषाश्रयसामान्यविकल्पद्वयानतिवृत्तेः । दृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे स्वेष्टविघातात् । अष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे साध्यशून्यत्वप्रसंगात् । निदर्शनाय दृष्टेतरविशेषाश्रयस्य सामान्यसाधनेऽपि स्वाभिमतविशेषसिद्धिः कुतः स्यात् ।
$ ३५. अधिकरणसिद्धान्तन्यायादिति चेत् ; कोऽयमधिकरणसिद्धान्तो नाम, यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः” न्यासू० १।१।३०] ततो दृष्टादृष्टविशेषाश्रयसामान्यमात्रस्य बुद्धिमन्निमित्तस्य जगत्सु प्रसिद्धी प्रकरणाजगन्निर्माणसमर्थः समस्तकारकाणां प्रयोक्ता सर्वदाऽविलुप्तशक्तिविभुरशरीरत्वादिविशेषाश्रय एव सिद्धयतीति चेत् , स्यादेवम् , यदि सकलजगन्निर्माणसमर्थेनैकेन समस्तकारकाणां प्रयोक्त्रा सर्वज्ञत्वादिविशेषोऽपि तेनाविनाभाविदृष्टेतरविशेषाधिकरणबुद्धिमत्कारणसामान्यं कुतश्चित्सिद्धयेत् ; न च सिद्धयति; अनेकबुद्धिमत्कारणेनैव स्वोपभोग्यतन्वादिनिमित्तकारणविशेषेण तस्य व्याप्तत्वसिद्धेः समर्थनात् । तथा सर्वज्ञवीतरागकर्तृकत्वे साध्ये घटादिना अनैकान्तिकं साधनम् । साध्यविकलं च निदर्शनम् । सरागसर्वज्ञकर्तृकत्वे साध्ये अपसिद्धान्तः । सर्वथा कार्यत्वं च साधनं तन्वादावसिद्धम् , तस्य कथंचित् कारणत्वात् । कथंचित् कार्यत्वं तु विरुद्धम् , सर्वथा बुद्धिमन्निमित्तत्वात् साध्याद्विपरीतस्य कथंचिबुद्धिमन्निमित्तत्वस्य साधनात् । तथा पक्षोऽप्यनुमानबाधितः स्यात् 'नेश्वरस्तन्वादीनां कर्ता ज्ञानादिरहितत्वात् , मुक्तवत् ,' इति प्रागुक्तानुमानस्य तद्बाधकस्य भावादिति, जगतो बुद्धिमद्धेतुकत्वं न सिद्ध्यति, साधकस्याभावाद् बाधकस्य संभवाद् । ततः सूक्तमिष्टविरुद्धं वैशेषिकमतमिति ।
- [इति वैशेषिकशासन-परीक्षा ]
१. व्युत्क्रमण आ समन्तात् लम्भः प्राप्तिः । २. यसिद्धौ अन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । ३. तन्वादेः ।
___1. -प इत्वा क०, ख० । १. -विर्भू शरीर क०, ख० ।
६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org