SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [ पूर्वपक्ष: ] [ नैयायिकशासन-परीक्षा ] १. वैशेषिकसमसिद्धान्ता नैयायिकास्त्वेवमामनन्ति - "प्रमाण- प्रमेय - संशय-प्रयोजन- दृष्टान्त-सिद्धान्त-अवयव तर्क- निर्णय-वाद- जल्पवितण्डाहेत्वाभास छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः । " [ न्यायसू० १|१|१] $ २. किं च, भक्तियोग-क्रियायोग- ज्ञानयोगत्रयैर्यथासंख्यं सालोक्यं सारूप्यं सामीप्यं सायुज्यं मुक्तिर्भवति । $ ३. तत्र महेश्वरः स्वामी स्वयं भृत्य इति तच्चित्तो भूत्वा यावज्जीवं तस्य परिचर्या करणं भक्तियोगः, तस्मात्सालोक्यमुक्तिर्भवति । ४. तपःस्वाध्यायानुष्ठानं क्रियायोगः । तत्रोन्मादकादिव्यपोहार्थमाध्यात्मिकादिदुःखसहिप्णुत्वं तपः, प्रशान्तमन्त्रस्येश्वरवाचिनोऽभ्यासः स्वाध्यायः, तदुभयमपि क्लेशकर्मक्षयाय समाधिलाभाय चानुष्ठेयम् । तस्मात्क्रियायोगात् सारूप्यं सामीप्यं वा मुक्तिर्भवति । विदितपदार्थस्येश्वरप्रणिधानं ' ज्ञानयोगः । ५. परमेश्वरतत्त्वस्य प्रबन्धेनानुचिन्तनं पर्यालोचनमीश्वरप्रणिधानम् । तस्य योगस्य यम-नियम- आसन -- प्राणायाम प्रत्याहार-धारणा - ध्यान-समाधयः अष्टाङ्गानि । तत्र देशकालावस्थाभिरनियताः पुरुषस्य विशुद्धवृत्तिहेतवो यमाः । अहिंसाब्रह्मचर्यास्तेयादयः देशकालावस्था पेक्षिणः पुण्यहेतवः क्रियाविशेषा नियमाः देवार्चन -प्रदक्षिण-संध्योपासन- जपादयः । योगकर्मविरोधि - क्लेशजपाद्यर्थश्च रणबन्धः आसनम् । पद्मकस्वस्तिकादेः कोष्ठस्य वायोर्गतिच्छेदः प्राणायामः रेचकपूरककुम्भकप्रकारः शनैः शनैरभ्यसनीयः । समाधिप्रत्यनीकेभ्यः समन्तात् स्वान्तस्य व्यावर्तनं प्रत्याहारः । चित्तस्य देशसंबन्धो धारणा । तत्रैकतानता ध्यानम् । ध्यानोत्कर्षान्निर्वाताचलप्रदीपावस्थानमिवैकत्र चेतसावस्थानं समाधिः । एतानि योगान्तानि मुमुक्षुणा महेश्वरे परां भक्तिमाश्रित्याभियोगेन सेवितव्यानि । ततोऽचिरेण कालेन भवन्तमनौपम्यस्वभावं प्रत्यक्षं पश्यति; तं दृष्ट्रा निरतिशयं सायुज्यं निःश्रेयसं प्राप्नोति । [ उत्तरपक्षः ] $ ६. तदेतत्तार्किकमतं दृष्टेष्टविरुद्धम् । प्रागनन्तरं प्रतिपादितप्रकारेणैव प्रत्यक्षानुमानविरोधयोरत्राप्युपपत्तेः, अतो नात्र पृथक तद्विरोधसमर्थनमुपक्रम्यते । $ ७. किं च, तदभ्युपगतपदार्थेषु इन्द्रियबुद्धिमनसाम् अर्थोपलब्धिसाधकत्वेन' प्रमाणत्वात् प्रमेयेष्वन्तर्भावानुपपत्तेः, अन्यथैकानेकात्मकत्वसिद्धेः । संशयादीनां प्रमेयत्वे च व्यवस्थानानुपपत्तेः । विपर्ययानध्यवसाययोः प्रमाणादिषोडशपदार्थेभ्योऽर्थान्तरभूतयोः प्रतीतेश्च न षोडशपदार्थव्यवस्था । १. तन्मतेनैव । २ प्रमाणाविषयखे । 1 प्रणवानं क० । 2. संमतात् क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy