________________
नैयायिकशासन-परीक्षा ८. तथैवं नैयायिकवैशेषिकसिद्धान्तस्य दृष्टेष्टविरुद्धत्वे सिद्धे चतुर्विधवर्णाश्रमवत् तदविधेयविविधाचारपुण्यपापपरलोकबन्धमोक्षतत्कारणतत्फलबद्धमुक्तादिस्वरूपप्रतिपादकोऽपि योगागमो न प्रमाणम् , दृष्टेष्टविरुद्धागमाभिन्नस्य तस्यातीन्द्रियेषु तत्कारणेषु च प्रामाण्यसंभावनानुपपत्तेरिति न तेषां धर्मानुष्ठानं प्रतिष्ठामियति । किं वा बहुभिरालापैः औलूक्यैः तार्किकैश्च लौकिकं वैदिकं वा यत्किंचिदुच्यते तत्सर्व मृषैव तदभिमतसर्वतत्त्वानां संसर्गासंभवेन' शन्यत्वस्यापादितत्वादित्यलमतिप्रपञ्चेन, दृष्टेष्टविरुद्धत्वान्नैयायिकवैशेषिकमतयोरसत्यत्वसिद्धत्वात् ।
दृष्टेष्विष्टेषु दृष्टेष्टविरोधाद्यौगसंमतः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् । संसर्गहानेः सर्वार्थहानेौगवचोऽखिलम् । भवेत्प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ।। दृष्टेष्टाभ्यां विरुद्धत्वान्न सत्यं योगशासनम् । न च तेन प्रतिक्षेपः स्याद्वादस्येति1 निश्चितम् ।।
[इति नैयायिकशासन-परीक्षा]
१. समवायादिसम्बन्धाभावेन । 1. द्वाश्चेति क०, ख०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org