________________
[ मीमांसक-भाट्टप्राभाकरशासन-परीक्षा ]
[ पूर्वपक्ष: ]
$ १. अथ मीमांसकमतमपि दृष्टेष्टविरुद्धम् । मीमांसकेषु तावदेवं भाट्टा भणन्ति - 'पृथिव्य - तेजोवायुदिक्कालाकाशात्ममनः शब्दतमांसि' इत्येकादशैव पदार्थाः, तदाश्रित गुणकर्मसामान्यादीनां तत्स्वभावत्वेन तादात्म्यसंभवान्न पदार्थान्तरमित्येवं पदार्थयाथात्म्यज्ञानात् कर्मक्षयो भवतीति ।
$ २. प्राभाकरास्तु —
" द्रव्यं गुणः क्रियाजाति संख्या सादृश्यशक्तयः । समवायः क्रमश्चेति नव स्युर्गुरुदर्शने ॥”
[
]
तत्र द्रव्या 1 [णि पृथिव्यादयः, ] गुणा रूपादयः क्रिया उत्क्षेपणादि । जातिः सत्ता द्रव्यत्वादि । संख्या एकत्वद्वित्वादिः । सादृश्यं गोप्रतियोगिकं गवयगतमन्यत्, वयप्रतियोगिक गोगतं सादृश्यमन्यत् । शक्तिः सामर्थ्यम्, सा अनुमेयैव । गुणगुण्यादीनां संबन्धः समवायः । एकस्य निष्पादनानन्तरमन्यस्य निष्पादनं क्रमः, प्रथमाहुत्यादिपूर्णाहुतिपर्यन्तम् । इत्येवं नचैव पदार्थाः । एतेषां याथात्म्यज्ञानान्निःश्रेयस सिद्धिरित्याचक्षते ।
$ ३. किं च, वेदमधीत्य तदर्थ ज्ञात्वा तदुक्तनित्यनैमित्तिक काम्यनिषिद्धानुष्ठानक्रम निश्चित्य तत्र विहितानुष्ठाने यः प्रवर्तते तस्य स्वर्गापवर्गसिद्धिर्भवति । त्रिकाल संध्योपासनजपदेवर्षिपितृतर्पणादिकं नित्यानुष्ठानम् । दर्शपौर्णमासग्रहणादिषु क्रियमाणनैमित्तकानुष्ठानम् । तद्वयमपि नियमेन कर्तव्यम् | कुतः,
"अकुर्वन् विहितं कर्म प्रत्यवायेन लिप्यते । " [ ] इति वचनात् । पुत्रकाम्येष्ट्यादिकमहिकं काम्यानुष्ठानम् । ज्योतिष्टोमादिकमामुत्रिकं काम्यानुष्ठानम् । श्येनाभिचरन् यजेत्' इत्यादिकं निषिद्धानुष्ठानम् । तत्क्रमं निश्चित्य तेष्वनुष्ठानेषु विहितानुष्ठाने यः प्रवर्तते स स्वर्गापवर्गौ प्राप्नोति ।
$ ४. अपि च
Jain Education International
"न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ ३
[
मुमुक्षूणां प्रव्रज्यया भवितव्यमिति नियमो नास्ति ।
१. पापेन । २. श्येनयागेन । ३. गृहस्थो मोक्षमार्गस्थो इत्यादि । तुलना - रत्नकर० श्लो० 1. द्रव्यादि गुणरूपादयः क०, ख० । 2. सानुमयैव क०, ख० । 3. निष्ठातिथि क० ।
...
] इति वचनात् ।
For Private & Personal Use Only
www.jainelibrary.org