Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 128
________________ ३५ वैशेषिकशासन-परीक्षा बन्धलक्षणजन्मनिवृत्तिरित्यागामिकर्मबन्धनिवृत्तिस्तत्त्वज्ञानादेव भवति । प्रागुपार्जिताशेषकर्मपरिक्षयस्तु भोगादेव नान्यथा। तथा चोक्तम् "नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥" ___] इति ६ . तत्रापि "कुर्वन्नात्मस्वरूपशः भोगात्कर्मपरिक्षयम् ।। युगकोटिसहस्राणि कृत्वा तेन विमुच्यते ॥" इत्येकः पक्षः। "श्रात्मनो वै शरीराणि बहूनि मनुजेश्वरः । प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं वरेत ॥ भुजीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ॥" ] इति एकस्मिन्नेव भवे बहुभिः शरीरैः प्रागुपार्जिताशेषफलभोग इत्यपरः पक्षः । ततश्च भोगात् प्रागुपार्जिताशेषकर्मपरिक्षये एकविंशतिभेदभिन्नदुःखनिवृत्तिरिति । ७. तानि दुःखानि कानीति चेत्, "संसर्गः सुखदुःखे च तपा[था]र्थेन्द्रियबुद्धयः। प्रत्येकं षड्विधाश्चेति दुःखसंख्यैकविंशतिः॥" ] इति सकलपुण्यपापपरिक्षयात् तत्पूर्वकबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराणामपि परिक्षये आत्मनः कैवल्यं मोक्ष इति । [ उत्तरपक्ष:] $ ८. तदेतदौलूक्यशासनं तावत दृष्टविरुद्धम् । तदभिमतस्यावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्यो दैकान्तस्य तदभेदग्राहिणा प्रत्यक्षेण 'विरुद्धत्वात् । ९. न यवयव्यादिरवयवादिभ्यः सर्वथा भिन्न एव प्रत्यक्षे प्रतिभासते, अपि तु कथंचिदभिन्न एव । तन्तुभ्यः तदातानवितानावस्थाविशेषरूपस्य पटस्य कर्पट्यादेश्चित्रज्ञाने नीलादिनिर्मासवत् ; तत्रैकलोलीभावमुपगतानां रूपादीनां गच्छतः, पुरुषाद् बाल्यादिवत् , स्थित्यादिवद्वा तदवस्था विशेषभूतक्रियायाः सामान्यवतोऽर्थाद् वैसादृश्यवत्तधर्मभूतसादृश्यलक्षणसामान्यस्य अनर्थान्तरतया सकललोकसाक्षिकमध्यक्षेणादध्यवसायात् । 1. -परीक्षयम् क० । 2. इदं पद्यं क०, ख० प्रतौ नास्ति । 3. -कर्मपरिकर्मक्षये क०, ख० । 4. तानि चेत् ग०। 5. -लुक्यशा क०। 6. -नं दृष्ट- ग.। 7. प्रत्यक्षेणावि- ग०। 8. चित्रपट्यादौ इत्यर्थः । कर्कट्यादेः क, ख । 9. लोविभा- ग०। 10. -णाध्यवसायात क०, ख० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164